SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । विशेषः । घञाद्युपस्थाप्या लिङ्गसंख्यान्वयिनी कारकत्वान्वयिनी च । आख्यातान्तोपात्ता तु नैवम् । तथापि कारकत्वेनान्वयि - त्वमात्रेण दृष्टान्तदाष्टन्तिकतेत्यवधेयम् । १०३ नच घञन्ते धातुना तथाभिधाने मानाभावः । ओदनस्य पाक इति कर्म्मषष्ठ्या मानत्वात् । नचाध्याहृततिङन्तक्रियान्वयाद षष्ठी । “कर्तृकर्मणोः कृति" (पा० सू० २ । ३ । ६५ ) इति कृदन्तेन योग एव तद्विधानात् । " न लोकाव्यय द्धर्मवत्त्वेन सादृश्यविवक्षणानोक्तदोष इति भावः । ननु धावत्यर्थस्य कारकत्वेनानन्वयित्वे कारकानन्वयित्वरूपमसत्त्वं तस्या भज्येतेतिचेत् तत्र क्रियानाधारत्वविशेषणेन कर्तुर्ष्यापाराधारत्वेन कर्मणःफलाधारत्वेन कर्तृत्वेन कर्मत्वेनान्वयेऽप्युक्तरूपस्यासत्त्वस्याऽक्षतत्वात् । उक्तञ्च क्रिया न युज्यते लिङ्गं क्रिया नाssधारकारकैः । असत्त्वरूपता तस्या इयमेवाऽवधार्यताम् ॥ इति । क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकधर्मवत्त्वमसत्त्वभूतत्वमिति म तत्वत्र दोषः प्रागुक्त एव । साधनाकाङ्गोत्थापकतावच्छेदकधर्मवत्त्वरूपतया परिष्कृते तु न क्वापि दोष इति । तथाभिधाने इति । उक्तसाध्यत्वेन रूपेण प्रतीतावित्यर्थः । *ओदनस्येति* । अत्रौदनपदं तण्डुलादिपरम् । अन्यथा विक्किलनस्यैवौदन पदार्थऩया तस्य पाकासम्भवेन बाधितार्थकताssपत्तेः । *कर्मषष्ठया इति* । कर्मत्वेन कर्मशक्तायाः षष्ठया एवेत्यर्थः । *मा· नत्वादिति* । अनुपपत्तिरूपप्रमाणत्वादित्यर्थः । घञन्तेन सिद्धभावस्यैवाऽभिधाने कारकाणां साध्यस्वभावक्रियाऽन्वयित्वनियमेनौदनस्याऽकारकतयाऽकर्मत्वेन तत्र षष्ठयनुपपत्तेरेव तस्य साध्यस्वभा चक्रियार्थकत्वे मानत्वादिति भावः । *क्रियान्वयादिति । साध्यस्वभावाऽध्याहृतभवत्यर्थस्य परम्परान्वयादित्यर्थः । नन्वोदनस्य कृदन्तार्थफलाश्रयत्वरूपकृदन्तयोग्यस्यापि सत्वेन
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy