________________
१०२ दर्पणसहित वैयाकरणभूषणसारे । ., आख्यातशब्दे-पश्य मृगो धावतीत्यादौ । भागाभ्यां-तिउन्ताभ्याम् । प्रकृतिप्रत्ययभागाभ्यामिति विवरणकारोक्तमपव्या. ख्यानम् पचतीत्यत्राऽपि भागद्वयसत्त्वात(१)। साध्यसाधनरू. पता यथाक्रमं ग्राह्या । साध्यत्वं क्रियान्तराकाङ्कानुत्थापकतावच्छेदकरूपवस्वम् । साधनत्वं कारकत्वेनान्वयित्वम् । स घबादिष्ट. पीति।प्रकृत्या साध्यावस्था, प्रययेन साधनावस्था(२)। इयान परं
-
भासत इति यावत् । तथा च तादृशभाष्येणापाद्यव्यतिरेकनिर्णये तहेतुभूते प्रामाण्योपगमादिष्टापत्तरसुकरत्वादिति भावः। ____ आख्याते शब्दो यस्मिन्निति बहुव्रीहिणा वाक्यमन्यपदार्थ इत्या. शयेनाह *पश्येत्यादि । तिङन्ताभ्यां पश्यधावतिभ्याम् ॥ धावतेः साधनत्वेन पश्यते साध्यत्वेन क्रियाबोधकत्वाद् दृष्टान्ततोपपत्ति. रत एव 'वक्ष्यति इयान् परं विशेष' इति । *प्रकृत्यादीति* । व्याख्यानं विवरणस्थम् । आख्यातशब्द इति कर्मधारय इति तद्भावः । अप. व्याख्याने हेतुमाह *पचतीत्यति* । तथाच तिङन्तरूढेन केवला. ख्यातपदेनैव पचत्यादितिङन्तरूपार्थलाभे शब्दपदवैयर्यम् । मन्मते तु तस्य बहुव्रीहिलाभसम्पादकतयाऽऽख्यातशब्दपदस्य तिङन्तद्वयघटितवाक्यपरतापत्तिः । पचत्यादेर्भागद्वयस्य साध्यसाधनवर्तित्वेऽ पि क्रियायास्ततः साधनत्वेनाऽबोधाद् दृष्टान्तत्वासम्भवश्चेति भायः । तदेव विशदयति *साधनरूपतेति* । प्रकृत्या पाक इत्या. दाविति शेषः।
मन्वनयोलिङ्गसंख्यान्वयित्वानन्वयित्वेन वैषम्यात कथं दृष्टा. न्तदाष्टान्तिकभावोऽत आह *इयान् परमिति । तथाच यत्किञ्चि.
(१) एवंच तत्रापि सिद्धावस्थापनक्रियाप्रतीत्यापत्तिः।
(२) एकस्यैव धात्वर्थस्य साध्यत्वसिद्धत्वरूपविरुद्धधर्मभानं न संभवेदिति तु नशंकनीयम् । संबन्धिभेदेन परस्परविरुद्धधर्माभ्यासः लोके शास्त्रे च दृश्यते । यथा-"पश्यमृगोधावति" इत्यत्र ए. कस्यैव धाधनस्य मृगं प्रति साध्यत्वं दर्शनं प्रति साधनत्यमवगम्यते तथाप्रकृतेऽपि संभवादिति ।