________________
१०० दर्पणसहिते वैयाकरणभूषणसारे भ्याप्तिः । अकर्मको यथा भ्वादिः। तयोः-फलव्यापारयोः आश्रयभेदे सकर्मक इत्यर्थः। . उक्तश्च वाक्यपदीये
आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच तेनासौ कर्मणा न सकर्मकः ॥ इति । विभ्रदिति । तेन स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत इति भावः । तेन=कर्मणा, सकर्मकत्वन्तु न अन्तर्भावात्= फलांशेन सामानाधिकरण्यसवादित्यर्थः । आत्मानं जानाति
ऽविकलत्वादिति भावः। ___ ननु मूले , तयोधर्मिभेदे इत्यनेन स्वार्थफलव्याधिकरणव्यापार. पाचकत्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सर्कमकत्व. मुक्तम् । तत्र वैयधिकरण्यं तदधिकरणाऽवृत्तित्वम् । तथाच प्रामा. दावव्याप्तिः । तदर्थफलव्यापारयोः परस्पराऽधिकरणवृत्तिभिन्नत्वाऽ भवादतो व्याचष्टे भूषणसारे-*आश्रयभेद* इति । तथाच प्रथम लक्षणे कर्तृभिन्नतदधिकरणाऽवृत्तित्वरूपस्य द्वितीये तदनधिकरणावृत्तित्वरूपस्थ निवेशानाऽनुपपत्तिरिति भावः। ___ अस्तेः फलव्यापारोभयार्थकत्वे हरिसम्मतिमायाह *उक्तश्चेति* । व्यपदिश्यते व्यवहियते । *अन्तर्भावादिति । धात्वर्थताव. छेदककोटिप्रविष्टत्वादित्यर्थः।।
पृथगुपस्थितयोरेवान्वयनियमात् कर्मसंक्षकाऽर्थान्वय्यर्थकरूपसकर्मकत्वस्य तत्राऽनवकाशादिति भावः। स्वोक्तलक्षणाऽनुसारेण सारकृद् व्याचष्टे *फलांशेनेति* । स्वकर्मकधारणरूपफलेन सह तदनुकूलव्यापारस्यकाधिकरण्यादित्यर्थः । आत्मरूपकर्मणा सकर्मकत्वं कुतो नेत्याकाङ्क्षायां एतत्समाधानस्योदक्षरत्वदोषदुष्टस्य यो. ग्यत्वं सुधीभिर्विभावनीम् ।
नन्वात्मानं जानातीत्यादावनुपदोक्तसकर्मकलक्षणस्याऽव्याप्तिः। तत्रज्ञानरूपफले तदर्थव्यापारस्य वैयधिकरण्याऽभावादतिव्याप्तिश्च