SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। तथाच भावनायाः फलसामानाधिकरण्यं तस्पष्टत्वे दोष इति भावः । नन्वेवं, किं करोतीति प्रश्ने, पचतीत्युत्तरस्येवास्तीत्युतरमपि स्यादिति चेत् इष्टापत्तेः । आसन्नविनाशं कश्चिदुद्दिश्य, किं करोतीति प्रश्ने, पचतीत्युत्तरस्येव, अस्तीत्युत्तरस्य सर्वस. म्मतत्वात् । इतरव तु सुस्थतया निश्चिते, किं करोतीति प्रश्नः, पाकादिविशेषगोचर एवे सवधारणादस्तीति नोत्तरमिति ॥१२॥ नन्वेवं भावनायाः फलनियतत्वात् फलाश्रयस्य च कर्म. त्वात् सर्वेषां क्रियावाचकत्वे सकर्मकतापत्तिरिसत आहफलव्यापारयोरेकनिष्ठतायामकर्मकः॥ धातस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ १३ ॥ एकनिष्ठतायाम् एकमात्रनिष्ठतायां, भिन्नाधिकरणात्तिता. यामिति यावत् । तेन गम्यादौ फलस्य कर्तृनिष्ठत्वेऽपि नाति कफलसामानाधिकरण्यस्य स्वरूपतो भावनास्पष्टभानप्रतिबन्धकत्वाऽभ्युपगमान्न स्पष्टं तत्प्रतीतिः । स्पष्टत्वं च फलप्रतीत्यनभिभूतत्वमिति भावः । एवम्-अस्त्याद्यकर्मकाणां व्यापाराऽर्थकत्वे । *फलनिः यतत्वादिति * । फलव्याप्यत्वादित्यर्थः। भावनावाचकत्वस्य फलधाचकत्वव्याप्यत्वादिति यावत् । *सकर्मकतापत्तिरिति । फलव्यापारोभयवाचकस्य पच्यादेः सकर्मकत्वदर्शनादिति भावः। ननु फलव्यापारयोरेकनिष्ठत्वस्याकर्मकतायां तन्त्रत्वे गम्यादी. नामप्यकर्मकतापत्तिस्तदर्थफलव्यापारयोरेककर्तवृत्तित्वादतो व्या. चष्टे *एकमात्रनिष्ठतायामिति । एकमात्रनिष्ठत्वमेकेतरावृत्तित्वे सत्येकवृत्तित्वम् । तत्र प्रयोजनाभावाद्विशेष्यांशमपहाय फलिता. र्थमाह *भिन्नाधिकरणेति । भिन्नत्वं च व्यापाराधिकरणापेक्षया बोध्यम्। तथाच स्वार्थव्यापारानधिकरणावृत्तिफलवाचकत्वं पर्यवसितं लक्षणं लक्ष्य ग्राहयति। तत्र सत्ताऽऽत्मकव्यापारस्यैकमात्रनिष्ठत्वस्या
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy