________________
९८ . दर्पणसहिते वैयाकरणभूषणसारे
- रोहितो लोहितादासीद् धुन्धुस्तस्य मुतोऽभवद् । (रामा. यणम् ) । इत्यादिदर्शनात् ।
किश्च, अत्र भावनाविरहे लडादिव्यवस्था न स्यात् । त. स्या एव वर्तमानत्वादिविवक्षायां तद्विधानात् । ___ "क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका'। इति वाक्यपदीयादिति ।
नन्वेवमस्तीत्यत्र स्पष्टं कुतो न बुद्ध्यत इत्यत आह अन्यत्रेति ॥ अशेषभावाद्-भावनायाः फलसमानाधिकरणत्वात् ।
ननु तत्राप्याश्रयताया धात्वर्थत्वकल्पनमप्याग्रहमूलकमेव । त. श्रोत्पत्तिमात्रार्थकत्वेऽपि रोहिताश्रयिका भूतानद्यतनोत्पत्तिरित्यभिमतार्थबोधलाभादत आह *किञ्चेति । तस्या एवेति । भावनाया एवेत्यर्थः । एवकारेण फलव्यवच्छेदः । यथा चैतत्तथोक्तं सार एव । तद्विधानात्-लडादिविधानात् । तत्र हरिसम्मतिमप्याह *क्रियाभेदा. येति । तुमर्थादिति चतुर्थी, वार्तिकेन तादेयें वा । क्रियां भेत्तुंविशेषयितुं इत्यर्थः । कालो लडादिबोध्यः । अस्तीति शेषः । लडाधर्थकालः क्रियामात्रभेदक इति यावत् (१)। विभक्त्यर्थरूपा संख्या तु स. स्याख्यातप्रातिपदिकार्थस्य भेदिकति तदर्थः । मतांतरेतु धातु. प्रातिपदिकार्थस्येतिबोध्यम् । एवं धातोयापारवाचकत्वे।
मूले-अशेषभावादिति । शेषः फलव्याप्त्यतिरिक्तो, भवत्यः स्मिन्निति भावोऽधिकरणं यस्येति बहुव्रीहिणा शेषभावशब्दः फल. व्यधिकरणार्थकः। भावप्रधाननिर्देशः । तस्मान्नसमस्तात् पञ्च. म्येकवचने फलव्यधिकरणत्वाभावादित्यर्थावगतिः ॥ १२ ॥
फलितमाह, सारे *भावनायाः फलेति* । एकमात्राऽधिकरण. . (१) भाष्यकाराद्यनुभवात , इतरक्रियाव्यावृत्तिफलकत्वात् , केि. यां विना वर्तमानादेः कालस्य प्रतीतेरभावाच्च, कालस्य क्रिया. यामेवान्धयः । अत एव भूवादिसूत्रे "नान्तरेणक्रियां भूतभविष्यद्व. तैमाना: काला व्यज्यन्ते" इत्यादिभाष्यकारेणोक्तं सङ्गच्छते ।