________________
धात्वर्थनिर्णयः ।
ततो गतो न वा' इति प्रश्ने, महता यत्नेनाऽस्तीति प्रयोगे सत्तारूपफलानुकूला भावना प्रतीयत एव । उत्पत्यादिबोधने (१) "तु सुतराम ।
वेन दर्शयति * स ततो गतो न वेति । गत्यर्थाऽकर्मकेति कर्त्तरि गतो कः । प्रश्न इत्यनेन भाव्यत्वस्य जिज्ञास्यत्वं ध्वन्यते । तथाच, न वा किमिति प्रश्नाऽऽकारः ॥
*प्रयोग इति । प्रश्ननिवर्त्तके वाक्य इत्यर्थः । प्रतीयते एवेत्यस्यास्धातुनेति शेषः । ननु स ततो गतो न वेति वाक्याद् गेहाथषधिकविभागानुकूलव्यापाराश्रयत्वतदभावाऽन्यतरस्य जिज्ञास्यत्वमवगम्यते । महता यत्नेनाऽस्तीति वाक्यात्वस्तेर्व्यापारार्थकत्वाभ्युपगमेऽपि चैत्रादिकर्तृकसत्ताऽनुकूलव्यापार एवेति कथमेतयोः प्रश्नोत्तरत्वम् । तथाहि । यद्धर्मावच्छिन्ने जिज्ञासितयद्धर्मावच्छि म्नस्य सम्बन्धो यत्प्रश्नवाक्यात् प्रतीयते तद्धर्मावच्छिन्ने जिज्ञासि ततद्धर्मावच्छिन्नसम्बन्धबोधकवाक्यस्योत्तरता । यदाहुःजिज्ञासितपदार्थस्य संसर्गे येन गम्यते ।
तदुत्तरमिति प्रोक्तमन्यदाऽऽभास शब्दितम् ॥ इति ।
यथा घटत्वावच्छिन्नं जिज्ञासितधर्मावच्छिन्नसम्बन्धबोधकस्य, कस्मादू घट इति प्रश्नवाक्यस्य घटत्वावच्छिन्ने जिज्ञासितदण्डत्वावच्छिन्नस्य हेतुहेतुमद्भावबोधकं दण्डादू घट इति वाक्यमुतरम् । प्रकृते तु, गत इति, नेति वेत्युत्तरं युज्यते ।
किञ्चोक्त प्रश्नेन सत्तासाधकव्यापारस्य जिज्ञास्यत्वानवगमात् कथमेतस्योत्तरत्वम् । तथात्वेऽपि पूर्वोत्तरवाक्ये यत्नेनेत्युपादाना• द्यत्नपदोपस्थाप्ययत्ननिष्पाद्यत्वबोधेनैवोत्तरत्वसिद्ध्या, न ततो धा तोर्व्यापारार्थकत्वासेद्धिरत आह *उत्पत्त्यादीति । सुतरामित्यस्य व्यापारार्थकत्वमिति शेषः । अत्राश्रयताबोधस्योभयमतसिद्धत्वेन सैव साध्यत्वेनाभिधीयमानत्वाद् व्यापारः । पौर्वापर्य्यं च परमते सत्तायामिव कालगतं तत्रारोपितमेवेति भावः । .
(१) आदिपदं पराभवतीत्यादौ पराभवादेः संग्रहार्थमिति ।
१३