________________
९६ दर्पणसहिते वैयाकरणभूषणसारे धात्वर्थत्वात् तेषां क्रियाशब्दन व्यवहारो भाष्यादौ कृतोऽप्यु. पपत्स्यत इति चेन्न । अन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारात प्रवेशावश्यकत्वेन तदर्थके वेत्यव्यये उक्तरीत्या गणपठितत्वसत्वेनाऽतिव्याप्तेरिति ॥ ११ ॥ ____नन्वस्यैव धातुत्वे, अस्तीसादौ क्रियाप्रतीत्यभावादस्त्यादीनां तदवाचकानामधातुत्वप्रसङ्ग इत्यत आहअस्त्वादावपि धर्यशे भाव्येऽस्त्येव हि भावना ॥ अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥ १२ ॥
अस्त्यादौ, अस् भूवि इत्यादौ। धयंशे-धम्पिभागे। भा. व्ये-भाव्यत्वेन विवक्षिते । अस्त्येव-प्रतायत एव । अयमर्थः 'स
न तद्गृहीतपौर्वापर्यारोपेण फलस्य क्रियात्वोपपत्तिः । भवन्मते तु क्रियाया धात्वर्थत्वानुपगमेन कथं तत्र तव्यवहारोऽत आह *धा. त्वर्थत्वादिति । तथाच तत्र फलत्वव्यवहार इव क्रियात्वव्यवहारो। ऽपि (१)धात्वर्थत्वप्रयोजकत्वाऽभ्युपगमेन तदुत्पत्तेरिति भावः । *भाध्यादौ कृत इति । "कर्मवत्कर्मणा" इति सूत्रभूवादिसूत्रे च भाज्यादावित्यर्थः । आदिपदाद् वृत्त्यादिपरिग्रहः ॥ ११ ॥ ___*अस्यैवेति । क्रियावाचकस्यवेत्यर्थः । एवकारेण फलमात्रवा. चकत्वव्यवच्छेदः । एतदवाचकत्वे हेतुः-क्रियाप्रतीत्यभावादिति । तवाचकानां व्यापारावाचकानामित्यर्थः। * अधातुत्वप्रसङ्ग इति*i आपत्तेरिष्टत्वं तु न, ततो लकाराद्यनुत्पत्तिप्रसङ्गादिति भावः ॥
धयंशे, फलरूपे इत्यर्थः । अंशपदोपादानात् धर्मिणो धर्मघ. टितमूर्तिकत्वादकर्मकस्थले कत्र्तवृत्तित्वाच्च फलस्यापि तदंशत्वात् तस्य भाव्यतायामेव विवादादाह *भाव्यत्वेनेति । भावनानिष्पा.
धत्वेनेत्यर्थः । फलसाध्यव्यापारस्य जिशासितत्वे इति यावत् । अत - एव वक्ष्यति 'आसन्नविनाशम्' इति । विवक्षास्थलमेव प्रश्नोत्तरभा.
(१) अर्थाद्गौणोव्यवहार इत्यर्थः ।