________________
दर्पणसहिते वैयाकरणभूषणसारे
पाठेन निर्णयासम्भवात् । तथाच विकल्पार्थको, वातीति प्रयोगः स्यादिति भावः । नच गतिगन्धनार्थनिर्देशो नियामकः । तस्य " अर्थानादेशनाद्" इति भाष्यपर्यालोचनया आधुनिकत्वलाभात् ॥ १० ॥
नन्वस्तु क्रियावाचकत्वे सति गणपठितत्वं धातुत्वं क्रिया च धात्वर्थ एव, न व्यापार इत्याशङ्कां समाधत्ते । धात्वर्थत्वं क्रियात्वातुत्वं च क्रियार्थता । अन्योऽन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ॥ ११॥
९४
र्गव्यावृत्तिर्न शङ्कया । साधादिसंग्रहाय परिभाषितषोपदेशत्वस्य तत्राऽपि सत्त्वात् ॥
*प्रयोगः स्यादिति । उपलक्षणं चैतत्सुवति, माति, मिमीते, इत्यादिप्रयोगाणाम् | बुप्रसवे, मा, माङ् माने इत्यादिधातूनां सत्त्वेन तन्निर्णयासम्भवात् । सत्यन्तोक्तौ तु न दोषः । वाद्यर्थस्य विकल्पादे - भूतादिकालासम्बन्धेन क्रिया वाभावादिति भावः । *नियामक इ ति* | गणे पठितानामेव धातुत्वस्याभिप्रेतत्वेऽर्थनिद्दैशवैयर्थ्यापत्त्या निर्दिष्टार्थानामेव धातुत्वं ज्ञाप्यते इत्यर्थः । *तस्य* । अर्थनिर्देशस्य । *अर्थानादेशनादिति* | अर्थस्य सत्तादेः, अनादेशनादनास्नानादित्यर्थः ।
* आधुनिकत्वलाभादिति । भीमसेनादिप्रणीतत्वावगतेरित्यर्थः । तथा च भूवादिसूत्रे, - परिमाणग्रहणं कर्त्तव्यम् । कुतो ह्येतत् । भूशब्दो धातुसंज्ञको भवति, न पुनर्वेधशब्द इति । यद्यप्यर्थनिर्देशस्य सूत्रकृत्प्रणीतत्वमपि । तथाच, “चुटू" ( पा०सु० १ । ३ । ७ ) इति सूत्रे - यदयमिरितः काँश्चिन्नुमनुषक्तान् पठति, उबुन्दिर् निशामने, स्कन्दिगतिशोषणयोः इति । तेन नेरितामिदिद्विधिरिति भाष्ये उ तम् । तथापि भाष्यद्वयप्रामाण्यात्सर्वधात्वर्थनिर्देशस्याऽपाणिनीयत्वेन न तनिर्देशस्य नियामकतेति भावः । चुलुम्पादीनां स्तम्भ्वादीनां च कास्यनेकाचामितिवचनादुदित्करणाच्च धातुतेति दिक् ॥ १०॥
*धात्वर्थ एवेति*॥ फलमेवेत्यर्थः । तथाच नैतत्सूत्रानुपपत्तिर्धा --