SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ९३ तावन्मात्रोक्तौ चाहसर्वनामाव्ययादीना यावादीनां प्रसङ्गतः ॥ न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ॥ १० ॥ गणपठितत्वमात्रोक्तौ सर्वनामाव्ययानामपि धातुत्वं स्यात् । तथाच, याः पश्यसीत्यादौ, "आतोधातोः,,(पा० सू० ६।४। १४०) इत्याकारलेोपापत्तिः। ननु लक्षणप्रतिपदोक्तयोः प्रतिपदो. क्तस्यैव ग्रहणान्न सर्वनाम्नां ग्रहणं तस्य लाक्षणिकवादित्यत आ. ह(१)वेत्यादि ।अव्यये, 'वा' इत्यादावतिप्रसङ्गः। तादृशस्यैव गणे क्रियावासम्भवात् । किन्तु तावन्मात्रोक्तावाणवयत्यादावतिव्याप्ति. बोध्या । तेषां धातुत्वे च शास्त्रविषयतया साधुत्वापत्तेरिति बोध्यम् ॥ ९॥ - तावन्मात्रोक्तावित्यत्र मात्रपदेन क्रियावाचकत्वदलव्यवच्छेदः। इष्टापत्तिमाशङ्ख्याह *तथाचेति । या इत्यस्य द्वितीयान्तत्वं सुचयितुमाह *पश्यसीति । *लक्षणप्रतीति* । लक्ष्यतेऽन्वाख्यायते साधुशब्दोऽनेनेति ल. क्षणं सुत्रम् । तदनुसन्धानसापेक्षत्वोपचारेण लाक्षणिकमपि लक्ष. शब्देनोच्यते । यथा, पै-इत्यस्य, पा इति रूपं विलम्बोपस्थितिकम् । लक्षणाऽनुसन्धानसापेक्षत्वात् । प्रतिपदोक्तं तु तद्विभक्तिवि. शेषानुवादेन पठितं शीघ्रोपस्थितिकम् । लक्षणानुसन्धानानपेक्ष. णात् इति । यथा पितेः पा इति रूपं । तथा च शीघ्रोपस्थितिकत्वं प्रतिपदोक्तग्रहणेबीजं, तञ्च या इति गणपठिते एव, सर्वनाम्नि लक्षणा. नुसंधानसापेक्षेति भावः । अव्यये, वा-इत्यादावित्यादिना, सु-इत्यु. पसर्गस्य, मा माङिति स्वराद्योश्च संग्रहः । षत्वप्रकरणपाठादुपस. __(१) वस्तुतस्तु नैतधुक्तम् "नकारजावनुस्वारपञ्चमा" इत्याधभिः युक्तोक्तः भ्वादिधातुषु लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते इत्यादि तत्सूत्रे शब्दरले एव स्पष्टम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy