________________
९२
दिकू ॥
दर्पणसहिते वैयाकरणभूषणसारे
सूत्रानुपपत्तिमपि मानत्वेन प्रदर्शयन्नुक्तार्थस्य स्वोत्प्रेक्षितत्वं निरस्यति-किञ्चति ॥ धातुसंज्ञाविधायकं, “भूवादयो धातवः " ( पा० सू० १ । ३ । १ ) इति सूत्रम् । तत्र भूश्च वाश्चेति द्वन्द्वः | आदिशब्दयोर्व्यवस्थाप्रकारकवाचिनो रेकशेषः । आदिश्व आदिश्व आदी, ततो भूवौ आदी येषां ते भूवादयः । तथाच भूप्रभृतयो वासदृशा धातव इयर्थः । तच्चे क्रियावाचकत्वेन (१) । तथाच क्रियावाचकत्वे सति भ्वादिगणपठितत्वं धातुत्वं पर्यवसन्नम् । अत्र क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रियावाचके हिरुनानेत्यादावतिव्याप्तिरिति स्वादिगणपतित्वमुक्तम् ॥ ९ ॥
वान्नोक्तापत्तिः । किञ्च धातुविहितप्रत्ययवाच्य तदाक्षिप्ता ऽन्यतरव्यापाराश्रयत्वं कर्त्तृत्वम् । धातुविहितेति प्रत्ययविशेषणाच्च न करणतृतीयार्थव्यापाराश्रयेऽतिव्याप्तिः । उक्तस्थले कृद्वाच्यकर्त्राक्षितव्यापाराश्रयत्वान्नोक्तदोषोऽत आह *दिगिति । तदर्थस्त्वितरनिवृत्तितात्पर्युकतादृशवाक्ये ऽस्त्यध्याहारस्यानावश्यकत्वादुक्तप्रकारस्य न साधीयस्त्वम् | किश्चैवरीत्या कर्तृत्वनिर्वचनाऽपेक्षया धातो. र्व्यापारार्थकत्वमभ्युपगम्य तदाश्रयत्वमेव कर्तृत्वं निर्वक्तुमुचि. तम्, लाघवादित्यादिः ॥
*स्वोत्प्रेक्षितत्वमिति । निर्मूलस्वकल्पनाविषयत्वमित्यर्थः । *हिरुगिति । यथाश्रुतमनुरुध्य चेदम् । तदर्थस्य कालानन्वितत्वेन
(१) नतुशब्दत्वादिना अदादित्वेन वा । आद्ये वादय इत्यस्याव्यावतकत्वात् । अन्ये- स्वादेरसंग्रहापतेः । किन्तु - परस्परसाहचर्यात क्रियावाचकत्वेनैव । तथाहि भूसाहचर्याद्वाशब्दोऽनव्ययमसत्ववाच्येव गृह्यते । तादृशवाशब्दसाहचर्याच्च भूशब्दोप्य सत्ववाच्येव गृह्यते इति परस्परसाहचर्यात्क्रियावाचित्वं लब्धम् इति दिक् ।