SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे मासविधायकाभावः । “सह सुपा" (पा० सू० २।१।४) इत्यस्य सत्वात् । अन्यथा असमर्थसमासोऽपि विधायकामावान्न स्यादिति । किञ्च, भावनायास्तियत्वे भावयति घटम् इतिवद् भवति घटम् इत्यपि स्यात् । धात्वर्थफलाश्रयत्वरूपकर्मत्वसवात् । न. चाख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वात्तत्संज्ञया कर्मसंज्ञाया बा. धान द्वितीयेति वाच्यम् । आख्यातार्थव्यापाराश्रयस्य कर्तृत्वे पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्ती तृतीयानापत्तेः । ग्राम गमयति देवदत्तो विष्णुमित्रमित्यत्र वि. अणुमित्रस्यातापत्तौ ग्रामस्य गमिकर्मत्वानापत्तेश्च (१)। तत्तिक इति* ॥ मृत्तिकायाः करणतया, सर्वपदार्थस्य कर्मतया कृधा. त्वर्थाऽन्वयित्वादिति भावः । योगविभागस्यानिष्टानापादकत्वादा. ह-*किश्चेति ॥ *अकर्तृतापत्ताविति* ॥ आख्यातार्थव्यापारानाश्रयत्वादिति शेषः । अस्मन्मते तु णिच्प्रकृत्यर्थव्यापाराश्रयत्वेन कर्तृत्वान्न तदनुपपत्तिरिति भावः । ननु विष्णुमित्रस्याऽकर्तृत्वेऽपि करणत्वविवक्ष येव नत्र तृतीया सुलभेत्यत आह-*ग्रामं गमयतीति* ॥ कर्तुरीप्सिततममित्यनेन प्रकृतिकर्तृनिष्ठव्यापारजन्य फलसम्बन्धिन एव कमसंज्ञा विधानेन त्वन्मते विष्णुमित्रस्याकर्तृतया तव्यापारजन्य. फलाश्रयस्यापि ग्रामस्याकर्मत्वेन तद्वाचकपदोत्तरं द्वितीयानाप (१) ननु "कर्तुरीप्सिततमं कर्म" इति सूत्रस्थं कर्तृपदं स्वतन्त्रप. रमवश्यं वक्तव्यम् । अन्यथा देवदत्तो विष्णुमित्रं ग्रामाय गमयतीति प्रयोगे प्रयोज्यस्य कर्मसशायां कर्तृसंज्ञाविरहात् ग्रामादिति द्वितीया नस्यात । तस्मात्कर्तृपदस्य स्वतन्त्रपरकत्वे तु न सानुपपत्तिः । धा. त्वर्थव्यापाराश्रयत्वरूपस्वातन्त्र्यस्य तत्रापि सत्वात् । एवं प्रकृते धात्वर्थसंयोगानुकूलव्यापाराश्रयत्वरूपस्वातन्त्र्यस्य प्रयोज्ये सत्वेन विष्णुमित्रस्य कर्तृत्वमितिचेत् न । आख्यातार्थव्यापाराश्रयस्यैव स्वातन्त्र्यपदार्थत्वात् । तस्य च प्रयोज्येऽसत्वात् इति बोध्यम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy