________________
दर्पणसहिते वैयाकरणभूषणसारे
भिन्नः, हरिणा बातो हरित्रात इत्यादौ, “कर्तृकरणे कृता बहुलम्" ( पा० सू० २ । १ । ३२ ) इति समासो न स्यात् । पुरुषो (२) रातो भार्य्या देवदत्तस्य इतिवद असामर्थ्यात् । नचाध्याहृतक्रियामादाय सामर्थ्य वाच्यं दध्योदनो गुडघाना इत्यादिवत् । अन्यथा तत्रापि "अन्नेन व्यञ्जनम्" ( पा० सू० २ । १ । ३४ ) भक्ष्येण मिश्रीकरणम् ( पा० सू० २ । १ । ३५ ) इति समासो न स्यादिति वाच्यम् । तत्र वि. ध्यानर्थक्याद गया तथा स्वीकारेऽपि 'हरिकृतम्' इत्यादौ सा
૯૯
*तस्य* । वाच्यत्व स्येत्यर्थः ॥
* असामर्थ्यादिति । विशिष्टार्थोपस्थित्यजनकत्वादित्यर्थः । मिराकांक्षत्वादितियावत् । प्रातभिन्नपदान्तर्गतधात्वर्थक्रिययोः क करणकारक साकाङ्गत्वेन, हरिणेत्यादिपदोपस्थित कर्त्तृकरणयोश्च कारकत्वेन कियासाकाङ्गत्वेन परस्परसाकाङ्गत्वरूपसामर्थ्य सुध व्यापारस्य धात्वर्थतावादिमते । भवन्मते तु. पुरुषो राशेो भार्या देवदत्तस्येत्यादिवन्निराकाङ्गत्वात् समासाऽनुपत्तिरिति भावः । इदमुपलक्षणं कारकविभकेरपि ॥
* अध्याहृतक्रियामादायेति। करोत्यर्थ व्यापारमादायेत्यर्थः । *सा. मर्थ्यमिति*। तथाच नखैः कृत्वा भिन्न इति बोधाऽभ्युपगमेनाऽध्याहतार्थमादाय सामर्थ्योपपत्तिरित्यर्थः । अध्याहृतक्रियामादाय सामर्थ्याsभ्युमगमे दृष्टान्तमाह-*दध्योदनेत्यादि* ॥ *विध्यानर्थक्यादिति* ॥ अनेन व्यञ्जनमित्यादेरपि पदविधित्वेन समर्थपरिभाषा - विषयतया स्वतोऽसमर्थदध्यादिपदानां समासविधानवैयर्थ्यापत्योपसेचनादिक्रियाध्याहाराऽभ्युपगमेऽपीत्यर्थः ॥
*हरिकृतमिति* ॥ कृधातोर्व्यापारार्थकत्व स्वीकारात्तन्निरूपित (२) राजसम्बन्धी पुरुषः देवदत्तसम्बधिनी भार्या इत्यन्वयविवक्षायां राशोमार्या इत्यमयोः परयोर्न समासः अनन्वयात्सामर्थ्याभावाश्च । तथा नखैर्भिन्न इत्यत्र नखभिन्न शब्दयोः समासोनस्यादित्यर्थः ।