SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [८३ द्वितीयः सर्गः । जीवयशसा कृतः विलापः ॥] इतः परीतः शोकेन कंससीमन्तिनीजनः । विललाप विलिप्ताङ्गः सर्वतः क्षोणिरेणुभिः ॥४४४॥ समस्ताभिः सपत्नीभिः समेताऽत्यन्तदुःखिता । ययौ जीवयशास्तत्र यत्र कंसोऽस्ति संस्थितः ॥४४५।। व्यात्तदीनाननं दूराद्रजोभिरवगुण्डितम् । तमुद्वीक्ष्य मृगाक्ष्यस्ताः समस्ता मुमुहुर्मुहुः ॥४४६।। अवसाने च मूर्छायाः प्रोच्छलच्छोकविह्वलाः । सोरस्ताडं सपूत्कारमरुदन्मेदिनीगताः ॥४४७॥ अथ कंसस्य संस्कारे जातेऽपि मगधात्मजा । यादवेष्वतिसाक्षेपा न निवापाञ्जलिं ददौ ॥४४८॥ उच्चैरवोचदेतच्च सरामैः सजनार्दनैः । यादवैः सह दास्यामि प्राणेशाय जलाञ्जलिम् ॥४४९॥ सप्रतापाज्जरासंधात्क्व दवादिव यादवाः । कान्दिशीकाः प्रयास्यन्ति शरणाय मृगा इव ? ॥४५०॥ इति प्रतिज्ञामेतस्या निशशाम विशांपतिः । उद्बुद्धक्रोधकल्लोललोलमेतज्जजल्प च ॥४५१॥ प्रगल्भते किमत्रैवं मुधा मगधनन्दिनी । यच्छिक्षितं तदाख्यातु पितुर्गत्वाऽधुनैव सा ॥४५२॥ इत्यवज्ञागिरं राज्ञः श्रुत्वा साऽथ समुत्सुका । जगाम ग्रामनगराण्युल्लङ्घ्य पितुरालयम् ॥४५३॥ राजा राजगृहे यातामेतां विज्ञाय सादरम् ।। अभीत इव भीतोऽपि सर्वानाह्वास्त यादवान् ॥४५४॥ अथ क्रोष्टकिमाहूय नृपः पप्रच्छ तैः सह । विरोधिनि जरासंधे यत्कर्तव्यमतः परम् ॥४५५॥ स व्याजहार राजंस्ते भवितारौ सुताविमौ । भरतार्धमहर्डीनां विश्रामौ रामकेशवौ ॥४५६॥ १. व्याप्तम् । २. राज्ञी इति प्रत्य० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy