________________
5
10
15
20
25
८२]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्यपितृगृहे गमनम् ॥ मध्येरङ्गं विडम्ब्योच्चैर्हृदि पादप्रहारतः । कीनाशग्रासतां निन्ये कंसः केशिविनाशिना ॥ ४३०|| कंसेन कृष्णभीतेन स्वात्मरक्षणकाङ्क्षिणा । जरासंधस्य यत्पूर्वमानिन्ये सैन्यमुद्भटम् ॥४३१॥ हन्तुं कंसस्य हन्तारमहङ्कारवशाद्भृशम् । सर्वं संवर्मयामास तद्धुर्योधमुदायुधम् ॥४३२॥ समुद्रविजयानीकैस्तद्बलं मगधेशितुः । प्रभञ्जनैरिव रजस्तूर्णं निन्ये विशीर्णताम् ॥४३३॥ बन्धुविध्वंससामर्षः कंसं स्वकुलपांसनम् । रङ्गाद्बहिर्निचिक्षेप धृत्वा केशेषु केशवः ॥४३४॥ इतः किलकिलारावमुखराः शौरिवेश्मनि । दत्त्वा श्रीस्थानमास्थानं तस्थुः सर्वेऽपि यादवाः ॥४३५॥ हृष्टो रथमनाधृष्टिर्बलेन सह केशवम् । आरोप्य प्रापयामास शौरिमन्दिरमादरात् ॥४३६॥ कृष्णमायान्तमालोक्य लोकोत्तरवपुः श्रियम् । पिबन्तो नेत्रपुटकैर्यादवाः प्रययुर्मुदम् ॥४३७॥ शौरिस्तु निस्तुषापत्यस्नेहसोल्लासमानसः । प्रत्युद्याय हृषीकेशमाशिश्लेष मुहुर्मुहुः ॥४३८ ॥ पादारविन्दं गोविन्दो ववन्दे ज्यायसः पितुः । तं सोऽप्युद्धररोमालिरालिङ्ग्याङ्के न्यवेशयत् ॥४३९|| समुद्रविजयः पश्यन्नास्यतामरसं हरेः । सम्पन्नसुमनोभावः स्वं चक्रे निर्निमेषताम् ॥४४०॥ अभ्येत्य देवकी तत्र प्रस्रवत्क्लिन्नकञ्चुका । चिरेण पुत्रगात्रस्य स्पर्शसौख्यमशिश्रयत् ॥४४१॥ चकार मथुरानाथमुग्रसेनं नरेश्वरः ।
सत्यभामां सुतां सोऽपि जिष्णवे विष्णवे ददौ ॥४४२॥ दिव्यस्य धनुषः पूर्वमारोपणपणीकृताम् । गुरुभिस्तामनुज्ञातः परिणिन्ये जनार्दनः || ४४३||