________________
८०]
[पाण्डवचरित्रमहाकाव्यम् । चाणूरस्य-वधः ॥ इत्यदीर्य समुत्तीर्य मञ्चाद्रोमाञ्चितो हली । द्राग्योधयितुमारेभे स मुष्टामुष्टि मौष्टिकम् ॥४०४॥ आहतो हृदये विष्णुश्चाणूरेणाथ मुष्टिना । यादवानां समं बाष्पैः पतति स्म भुवस्तले ॥४०५॥ हरिं मूर्छालमालोक्य चक्रे हाहारवं जनः । उच्छलन्नासनात्कंसः पुनः किलकिलारवम् ॥४०६॥ हरेः पुनः प्रहाराय स स्वं मल्लं समादिशत् । भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥४०७॥ समुद्यते हरिं हन्तुं तस्मिन्नुत्सृज्य मौष्टिकम् । तं दृद्वैः कूर्पराघातैर्बलाव्यावर्तयद्बलः ॥४०८॥ अथोन्मीलितचैतन्यः स्फारोज्जागरपौरुषः । उत्तस्थौ केशवः साकं यादवानां मनोरथैः ॥४०९॥ मूर्छामेघावलीमुक्तस्तेजस्तीव्र वहन्हरिः । कंसस्य कौशिकस्येव भानुवदुःसहोऽभवत् ॥४१०॥ कृष्णेन विकसद्वक्त्राम्भोजमोजायितं तथा । चाणूरेण यथा वेगात्कृतान्तस्यातिथीयताम् ॥४११॥ कंसस्य वदनाम्भोजे समुद्रविजयस्य च । हिमांशुश्चाहिमांशुश्च विष्णुरेकोऽप्यभूत्तदा ॥४१२॥ मृत्युमेभिरभिज्ञानैर्ज्ञात्वाऽरिष्टादिदारिभिः । कंसः कक्षीकृतक्षोभः स्वान्भटानिदमब्रवीत् ॥४१३॥ रे ! रे ! गृह्णीत गृह्णीत चाणूरपरिपन्थिनम् । स्वयंभूमल्लमुन्मत्तमेनं गोपालबालकम् ॥४१४॥ एतद्गुह्यश्च संगृह्य निग्राह्यो निर्भयैः परः । चौरस्वीकारकर्ताऽपि शीर्षच्छेद्यो हि चौरवत् ॥४१५॥ व्याजहार हरिः कंसं विकटभ्रुकुटिस्ततः । किं दुरात्मन्ननात्मज्ञ ! जिह्वामालोच्य नोच्यते ? ॥४१६।।
15
25
१. मल्ले । २. एतस्य पक्षपाती ।