SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [७९ द्वितीयः सर्गः । चाणूरेन सह युद्धम् ॥] किंत्वनेन नियुद्धेन द्रक्ष्यतेऽन्तरमावयोः । चण्डेन पवनेनैव तूलपूल-नगेन्द्रयोः ॥३९१॥ इत्युक्त्वा स भुजास्फोटं केशवे वल्गु वल्गति । . हाहाकारपरो लोकः परस्परमभाषत ॥३९२॥ तरुणः क्व नु चाणूरः ? क्व चासौ गोकुलार्भकः ? । न युक्तमनयोर्युद्धं वृष-तर्णकयोरिव ॥३९३॥ एवमाकर्ण्य लोकोक्ति कंसः कोपादवोचत । असौ यदृच्छालापेषु दक्षो दुःशिक्षितो जनः ॥३९४।। इह केन समाहूतावायातौ गोपदारकौ । दुग्धमत्तौ स्वयं ह्येतौ युध्येते को निषेधति ? ॥३९५॥ इत्याक्षेपवचः श्रुत्वा शूरसेनमहीपतेः । लोकस्तदा तदाकूतं मत्वा मौनमशिश्रियत् ॥३९६।। गर्वात्कुर्वन्भुजास्फोटं स्फोटयन्निव रोदसी । ततश्चाणूरमल्लोऽपि नियोद्धमुपचक्रमे ॥३९७॥ तयोर्नवनवोन्मीलन्मल्लविज्ञानदर्शिनः । तदेकताना राजानो जाताश्चित्रार्पिता इव ॥३९८॥ बाल्यचापल्यललितैर्हरेर्मल्लातिशायिभिः । समुद्रविजयादीनां तदा कन्दलिता मुदः ॥३९९।। विष्णुर्विज्ञाननिष्णातस्तदानीं पादददरैः । कंसस्य मनसा सार्धं कम्पयामास मेदिनीम् ॥४००॥ भीतस्ततो हरिं हन्तुमपरं मथुरापतिः । दुष्टं मौष्टिकमादिक्षन्नास्त्यकृत्यं दुरात्मनाम् ॥४०१॥ श्रीपतिं प्रतिधावन्तं दृष्ट्वा मौष्टिकमादरात् । सीरपाणिरभाषिष्ट रोषपाटललोचनः ॥४०२।। रे ! रे ! दुष्ट ! दुराचार योद्धमुत्तिष्ठसे कथम् ? । चण्डदोर्दण्डकण्डूतिमेष व्यपनयामि ते ॥४०३॥ १. पूग० प्रति० । २. पादघातैः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy