________________
[७७
द्वितीयः सर्गः । कृष्णस्य प्रशंसा ॥]
स एष केशिकीनाशः स एष वृषमर्दनः । नन्दस्य नन्दनः सोऽयं सोऽयं सर्पस्य दर्पहा ॥३६४॥ गोपालतिलकः सोऽयं सोऽयं सिन्धुरघातकः । श्लाघ्यमानो जनैरेवमदीत परस्परम् ॥३६५।। अपरं जनमुत्सार्य सोत्साहः सपरिच्छदः । आरुरोह दुरारोहं मञ्चमेकं जनार्दनः ॥३६६॥ अथाभ्यधत्त तं रामो वत्स ! सोदर ! वत्सल ! । व्यापार्यतामितो दृष्टिविषवृष्टिद्विषज्जने ॥३६७।। इमं किरीटकेयूरहारकुण्डलमण्डितम् । उच्चैः सिंहासनासीनं पश्य कंसं स्ववैरिणम् ॥३६८॥ असौ ते बन्धुविध्वंसनवनाटकसूत्रभृत् । तदस्य दर्श्यतामङ्को मृत्युनामाद्य नूतनः ॥३६९।। इतोऽपि ज्ञातिवर्गं स्वं दृशा स्वीकुरु सान्द्रया । असौ तव पिता ज्येष्ठः समुद्रविजयो नृपः ॥३७०॥ अयं च वसुदेवाख्यः ख्यातो जनयिता तव । अक्रूराद्यास्तवैतेऽत्र बन्धवः शौर्यसिन्धवः ॥३७१॥ इतश्चान्येऽपि राजानो जानन्तस्त्वामुदित्वरम् । विस्मयेन निरीक्षन्ते निरीक्ष्यन्तां त्वयाऽप्यमी ॥३७२।। कंसे च ज्ञातिवर्गे च द्विष्टे प्रीतिपरेऽप्यथ । क्रोधरूक्षा बहुस्नेहमुग्धाश्चासन्दृशो हरेः ॥३७३॥ समुद्रविजयो राजा कृष्णं नेत्रपुटैः पिबन् । वसुदेवं प्रति स्निग्धां मुदा गिरमुदाहरत् ॥३७४॥ वत्स ! प्रसेदुरस्माकमद्यैव कुलदेवताः । सुतस्त्रैलोक्यमाणिक्यं यदसौ ददृशे दृशा ॥३७५।। इयन्तं समयं यावद्वञ्चिते मम लोचने । वत्सः कृष्णः सतृष्णाभ्यां यन्नैताभ्यामपीयत ॥३७६।। अथाभाष्यत कंसेन हरिं वीक्ष्य बृहस्पतिः । शत्रावमुत्र जैत्रे स्युर्वाचः कथमृषेम॒षा ? ॥३७७।।
15
20
25