________________
5
10
15
20
25
७६ ]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्ण-बलाभ्यां हतौ गजौ ॥
कृष्णेन दृढमूरुभ्यामाक्रम्य दमितस्तथा ।
स यथा सर्वथा जज्ञे निर्विषो मरणावधि ॥३५१॥ प्रेमीतप्रायमालोक्य लोकोत्तरकृपापरः । दूरादुत्सृज्य तं विष्णुः स्नात्वा तीरमुपागमत् ॥ ३५२॥ यमुनातीरवास्तव्यैर्वीतविघ्नैस्तपस्विभिः । स यथार्थाभिराशीर्भिरभ्यनन्द्यत भूरिशः ॥ ३५३ ॥ तेन नव्यावदातेन सानन्दैर्नन्दनन्दनः । घोषादागत्य वेगेन गोपालैः पर्यवार्यत ॥३५४॥ गायद्भिः कृष्णगीतानि वादयद्भिश्च शृङ्गिकाः । तैः समं रामगोविन्दौ चेलतुर्मथुरां प्रति ॥ ३५५॥ विस्मयोत्फुल्लनयनैर्वीक्ष्यमाणः पुरीजनैः । मथुरागोपुरं गोपैरुपेतः प्राप केशवः ||३५६॥ अतुल्ययोः प्रतोल्यन्तर्विशतो रामकृष्णयोः । कंसादिष्टमहामात्रप्रयुक्तौ मदविला ॥३५७॥ पद्मोत्तरो हरिं हन्तुं चम्पकश्च हलायुधम् । उद्धरौ सिन्धुरौ प्रेतपतिप्रायावधावताम् ॥३५८॥ (युग्मम्) लीलायितशतैस्तैस्तैः पद्मोत्तरमनुत्तरैः । कुशलो गजशिक्षासु खेलयामास केशवः || ३५९ ।। उत्खाय दन्तमुशले सलीलं तस्य दन्तिनः । निष्ठुरैर्मुष्टिभिर्विष्णुर्ददौ कीनाशदासताम् ॥ ३६० ॥ कैण्ठीरव इवोत्प्लुत्य भित्त्वा कुम्भस्थलं बलात् । हन्ति स्म रौहिणेयोऽपि निष्कम्पश्चम्पकद्विपम् ॥३६१॥ विपुलं वालुकाकीर्णं विकीर्णकुसुमोत्करम् । सश्रीकमुत्पताकं तौ जग्मतुर्मल्लमण्डपम् ॥३६२॥ रङ्गं विशति गोविन्दे निवृत्तविषयान्तराः । लोकस्य विस्मयस्मेरा निपेतुर्युगपदृशः || ३६३॥
१. मृतप्रायम् । २. यमस्य किङ्करत्वं । ३. सिंहः ।