SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । कंसस्य कपटता ॥ ] रथाश्ववेगतस्तावदनाधृष्टिर्जनार्दनम् । गोष्ठे बलान्तिके मुक्त्वा ययौ शौर्यपुरे स्वयम् ॥३१२॥ नायमस्मादृशां साध्य इत्युपागत्य ते भटाः । कंसायावेदयामासुस्तस्योर्जितमनुत्तरम् ॥३१३॥ तदाकर्ण्य भृशं कीर्णज्वलिताङ्गारदुःसहम् । मनोदुःखं वहन्कंसः प्रकृतिव्यत्ययं ययौ ॥३१४॥ आराध्यमप्यनाराध्यं गुरुमप्यगुरुं तदा । मथुराधिपतिर्मेने प्रत्यासन्नविपत्तिकः ॥ ३१५॥ [ ७३ कोपप्रसादावस्थाने व्यवस्थाया व्यतिक्रमम् । न्यायस्यापि विपर्यासं स चक्रे मरणातुरः ||३१६|| नियुद्धच्छद्मना पेष्टुमरिष्टारं स दुष्टधीः । चापस्योत्सवमारोप्य पुनर्भूपानजूहवत् ॥३१७॥ वसुदेवोऽथ दुर्भावं तस्य ज्ञात्वाऽऽप्तमानुषात् । रामाय दापयामास सर्वं शिक्षां मनोगताम् ॥३१८॥ समुद्रविजयादीनां सर्वेषामग्रजन्मनाम् । शौरिर्विज्ञापयामास कंसाचरणमादितः ॥३१९॥ अजूहवच्च शौरिस्तान्कृष्णावष्टम्भहेतवे । अन्यैव हि मनः स्फूर्तिगुरुष्वभ्यर्णवर्तिषु ॥ ३२० ॥ अथ कंसाज्ञया राज्ञः प्रतीहारो यथोचितम् । तदोपदेशयामास पृथग्मञ्चेषु गौरवात् ॥३२१॥ ततः क्षौमकृतोल्लोचं मञ्चमेकं मनोरमम् । कंसोऽपि स्वयमध्यास्त विमानमिव वासवः || ३२२|| दशार्हा दशदिक्पालसमाः शौरिनिमन्त्रिताः । न्यवेश्यन्त कृतोच्चूले मचे कंसेन सादरम् || ३२३॥ अथालोक्य नृपान्कांश्चिद्गच्छतो गोकुलाध्वना । अवोचत बलं विष्णुर्मल्लालोकनकौतुकी ॥ ३२४॥ १. शौरपुरे इति प्रत्य० । २. कीर्णाः - विस्तृता: । ३. मारभ्य - प्रतिद्वय । ४ ऽपि० प्रति० । 5 100 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy