________________
७२]
10
[पाण्डवचरित्रमहाकाव्यम् । सत्यभामा स्वयंवरम् ॥ उपेत्य मथुरां सोऽथ पुष्पप्रकरदन्तुरम् । मुक्तमुक्ताफलोच्चूलं संप्रापच्चापमण्डपम् ॥२९९।। उच्चमञ्चस्थितान्पश्यन्स्व:पतीनिव भूपतीन् । रथं मुक्त्वा बहिस्तत्र स विवेश सकेशवः ॥३००। मण्डपान्तकृतार्चस्य धन्वनोऽन्तेनिषेदुषीम् । निर्जितामर्त्यरामां स सत्यभामां न्यभालयत् ॥३०१॥ निपेतुः सत्यभामायाः पीवरांसस्थले हरौ । मुग्धाः स्निग्धा विदग्धाश्च पञ्चेषुविवशा दृशः ॥३०२।। कलिङ्गवङ्गकाश्मीरकीरप्रभृतिभूमिपाः । आगम्य धनुरानम्य स्वं स्वं मञ्चं पुनर्ययुः ॥३०३॥ हसित्वा ताननाधुष्टिऽष्टो धन्वजिघृक्षया । व्यापारितकरो दूरात्पतति स्म विसंस्थुलः ॥३०४॥ भग्नमाणिक्यमुकुट: त्रुटन्मुक्तालतश्च सः । सतालं सत्यभामाया वयस्याभिरहस्यत ॥३०५॥ कोदण्डं चण्डदोर्दण्ड: कोपादारोप्य तं तदा । विष्णुरुत्थापयत्तासां हास्यस्थानेऽद्भुतं रसम् ॥३०६।। कोऽयं दुर्वारदोर्वीर्य ? इति चिन्ताकुले जने । पत्याऽमुना च भामायां कृतार्थमन्यचेतसि ॥३०७॥ प्रसह्य गृह्यतामेष चापारोपणलम्पटः । मा स्म यासीदसौ येन रुष्टोऽस्मै मथुरापतिः ॥३०८॥ इति कंसभटोत्तंसहक्कां केशिनिसूदनः । धीरं शुश्राव गोमायुनिनादमिव केसरी ॥३०९॥ त्रिभिर्विशेषकम् । अनाधृष्टिं पुरस्कृत्य तदानीमकुतोभयः । निरगात् तान्भटान्भित्त्वा कृष्णो भानुर्घनानिव ॥३१०॥ याति यात्येष गृह्णीत गृह्णीताह्वायसादराः । इति ब्रुवाणाः सुभटा यावद्धावन्ति पृष्ठतः ॥३११॥
15
20
25
१. वितानम् । २. रस्थापयत् इति प्रत्य० ।