________________
[७१
द्वितीयः सर्गः । सत्यभामा वृत्तान्तः ॥]
तं निशम्य मुनेर्वाचं सत्यां निश्चित्य सोऽन्यदा । आहूयाभिदधेऽमात्यं मृत्युभीतो बृहस्पतिम् ॥२८६।। अस्त्यमात्य ! ममारातिः सानन्दं नन्दगोकुले । तत स्तद्ग्रहणोपायं निरपायं विचिन्तय ॥२८७॥ बृहस्पतिरथोवाच देव ! देवसभोपमम् । रङ्ग शार्णाधिरोपाय निर्मापय मनोरमम् ॥२८८॥ आहूयन्तां च भूपालाश्चापारोपमहोत्सवे ।। विहायाहवशौण्डीरान्दशार्हान्सुतवत्सलान् ॥२८९॥ . इदं चाघोष्यतां चापं यः समारोपयिष्यति । तस्मै कंसः स्वसारं स्वां सत्यभामां प्रदास्यति ॥२९०॥ निजैरनुत्सुकैः छेकैः शौण्डीरैरुद्भटै टैः । धृतासिदण्डै: कोदण्डमण्डपः परिवेष्ट्यताम् ॥२९१॥ आयातश्च ततश्चापसमारोपणकर्मणि । स तैर्गोपस्तवारातिर्जीवग्राहं ग्रहिष्यते ॥२९२॥ इत्यासूत्रितमन्त्रं तं मन्त्रिणं मथुरापतिः । त्वमेवेदं विधेहीति सप्रसादं समादिशत् ॥२९३॥ मन्त्रिणाऽनुष्ठिते तस्मिन्मिलत्सु क्षोणिभर्तृषु । इमं वृत्तान्तमज्ञासीदनाधृष्टिर्बलाग्रजः ॥२९४॥ छन्नं शौर्यपुरात्सोऽथ प्रस्थितो मथुरां प्रति । अवात्सीद्वन्धुवात्सल्याद् गोकुलेऽनाकुलो निशि ॥२९५॥ बलं बलादनुज्ञाप्य कृष्णमादाय गच्छतः । प्रातर्द्वमाकुले मार्गे वटेऽस्य स्यन्दनोऽस्खलत् ॥२९६।। रथं महारथो नेतुं नालं ज्येष्ठो यदाग्रतः । तदा दूर्वामिवोन्मूल्य कृष्णो दूरेऽक्षिपद्वटम् ॥२९७।। वीक्ष्य विष्णोर्भुजस्थामहृष्टोऽनाधृष्टिरञ्जसा । तमालिलिङ्ग सर्वाङ्गं भूयो भूयश्चुचुम्ब च ॥२९८।।