SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७४] [पाण्डवचरित्रमहाकाव्यम् । बलकृतकृष्णावबोधः ॥ मथुरामार्य ! गच्छावः पश्यावो मल्लसंयुगम् । प्रसीद माऽन्यथा कार्षीः पूर्यतां मे मनोरथः ॥३२५।। एतस्य पितुरादेशमाख्यातुं समयोऽधुना । इति रामोविनिश्चित्य यशोदामभ्यधात्तदा ॥३२६।। मथुरां गन्तुमिच्छावस्ततो नौ स्नपय द्रुतम् । सा प्रत्यूचे न युवयोः स्नपनावसरो मम ॥३२७॥ क्रोधारुणाक्षः साक्षेपं बलस्तां प्रत्यभाषत । अरे ! दासि ! न जानासि स्वात्मानमतिगविता ? ॥३२८॥ तामित्युक्त्वा करे धृत्वा कृष्णं कृष्णमुखं रुषा । स्नानायाह्नाय कालिन्दी कालिन्दीकर्षणो ययौ ॥३२९॥ उपनीरं स वानीरतले विष्णुमभाषत । वत्स ! विच्छायवदनः किमिदानीं विलोक्यसे ? ॥३३०॥ हरिः प्रत्याह दासीति किमात्थ मम मातरम् ? । मातुर्यक्कारमाकर्ण्य सकर्णो हि क्षमेत कः ॥३३१॥ रोहिणीतनयः कृष्णं मूधि चुम्बन्नवोचत । यशोदा नैव ते माता न च नन्दः पिता तव ॥३३२॥ देवकाङ्गभवा देवी देवकी जननी तव । स्तन्यं या तुभ्यमभ्येत्य ददाति स्मान्तरान्तरा ॥३३३।। पिता च वसुदेवो नौ सुभगः खेचरर्चतः । कुशााधिपतिर्यस्य समुद्रविजयोऽग्रजः ॥३३४॥ ममार्य ! किमु सोदर्य ? इत्युक्तो विष्णुना बलः । अवदद्वत्स बन्धुस्ते वैमात्रेयोऽस्मि केवलम् ॥३३५॥ उद्दामबहुधामानो यादवा ज्ञातयस्तव । भरतार्धपतिस्त्वं च ज्ञानिभिः कथितोऽसि नः ॥३३६।। ईदृशि त्वादृशां जन्म न गोपालकुले भवेत् ।। मरुस्थले हि कल्पद्रुरात्मलाभं लभेत किम् ॥३३७॥ 15 20 25 १. मल्लयुद्धम् । २. बलः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy