________________
[६९
द्वितीयः सर्गः । कंसकृतोपसर्गः ॥]
शाङ्गं तु शाङ्गपाणेस्तद्भविष्यति भविष्यतः । एतत्त्वादिष्टमुत्कृष्टज्ञानैर्मुनिवरैः पुरा ॥२६०॥ युग्मम् । मल्लस्तेऽप्रतिमल्लो यः शूरश्चाणूरसंज्ञकः । यस्तं हन्ता स ते हन्ता मा कृथाः कंस ! संशयम् ॥२६१॥ गजौ स्तस्ते श्रियः पद्मौ च पद्मोत्तर-चम्पको । एतयोर्जीवितान्तस्य यो विधाता तवापि सः ॥२६२॥ वास्तव्यो योऽस्ति कालिन्द्यां कालियो नाम पन्नगः । यस्तस्य दमकः स्वैरं प्राणानां शमकः स ते ॥२६३॥ श्रुत्वेति प्रोल्लसत्कम्पः कंसः कातरलोचनः ।। तं विसृज्य समादिक्षत्तूर्णमामन्त्र्य मन्त्रिणम् ॥२६४॥ स्वादुभिमुंदुभिर्घासैरेतावानीय पीनताम् । वृषाश्वौ स्वेच्छया मुञ्च यमुनावनराजिषु ॥२६५।। चाणूरमुष्टिको पुष्टिमुपानय रसायनैः । यथा नियुद्धे जीयेते तौ च मल्लौ न केनचित् ॥२६६॥ मन्त्रिणा प्रौढमन्त्रेण यथादिष्टमनुष्ठितम् । निस्तन्द्रचन्द्रशालिन्या शरदा च विजृम्भितम् ॥२६७।। जगुर्जगच्चमत्कारि कलं कलमगोपिकाः । मदः सप्तच्छदामोदैः सहैव करिणामभूत् ॥२६८॥ सरोजानां रजःपुर्जरयुज्यन्त जलाशयाः । दिगन्तास्तु व्ययुज्यन्त पयोदानां कदम्बकैः ॥२६९।। गोष्ठोपकण्ठे सोत्कण्ठगोपीयुक्तोऽथ रासकैः । चन्द्रिकोन्निद्रचन्द्रासु कृष्णश्चिक्रीड रात्रिषु ॥२७०॥ दिवसे तु स धेनूनां वन्दं वृन्दावने वने । पालयामास गोपालबालकैः परिवारितः ॥२७१॥ अथ कूलेषु कालिन्द्यास्तदा स्वच्छन्दचारिणौ । अरिष्टकेशिनौ दुष्टौ क्रमाद्गोष्ठमुपेयतुः ॥२७२॥
१. मल्लोऽस्त्यप्रति० इति प्रत्य० । २. नैव मल्लेन केनचित्, इति प्र० । ३. कलम: शालिधान्यविशेषः ।