________________
६८]
[पाण्डवचरित्रमहाकाव्यम् । कंसविचारणा ॥ सोऽरिष्टानि पिनष्टि स्म तदा नेमिलता इव । अरिष्टनेमिरित्यस्य ततो नाम विनिर्ममे ॥२४७॥ उपास्यमानः स सुरैर्नन्द्यमानश्च यादवैः । पाल्यमानश्च धात्रीभिः सुखं सुखमवर्धत ॥२४८॥ निर्ममे शौरिणा पूर्वं कृष्णे जातेऽपि नोत्सवः । मथुरायां ततश्चक्रे तज्जन्मनि विशेषतः ॥२४९॥ आगतो देवकी द्रष्टुं कंसः शौरिगृहेऽन्यदा । छिन्नैकनासिकां कन्यां क्रीडन्ती तामुदैवत ॥२५०॥ तामालोक्य मुनेर्वाक्यं स्मृत्वा सोऽभूद्भयातुरः । न मृत्युसदृशं दुःखं न सन्तोषसक्सुखम् ॥२५१॥ स सौथमेत्य पप्रच्छ कञ्चिन्नैमित्तिकं रह: । मुनिना यन्मयि प्रोक्तं, तत्सत्यं किमुतान्यथा ? ॥२५२॥ सोऽवोचन्नृप ! तत्सत्यं नान्यथा मुनिभाषितम् । जीवत्येव तवारातिर्देवक्याः सप्तमः सुतः ॥२५३॥ न वेद्मि क्वचिदस्तीति ज्ञानोपायं तु ते ब्रुवे । प्रदीपेनेव ते वैरी येनावश्यं प्रकाश्यते ॥२५४॥ वपुष्मानिव दर्पोष्मा श्यामलो विन्ध्यबान्धवः । ऊर्जस्विगजितो यस्ते दुष्टोऽरिष्टाभिधो वृषः ॥२५५।। यश्चास्ति भृशमभ्यस्तदौःशील्य: केशिसंज्ञकः । लोकोपद्रवनिःशूक:२ शूकलस्ते तुरङ्गमः ॥२५६।। एतावानीय पीनत्वमुद्दाममदमेदुरौ । मुच्येतां मथुरापुर्यां बहि:स्वच्छन्दचारिणौ ॥२५७॥ तावुभाविभवन्मत्तौ हेलया यो हनिष्यति । केसरीवान्तकृत्तेऽसौ राजकुञ्जर ! नान्यथा ॥२५८॥ शाहूं यदस्ति ते धाम्नि दुःस्पर्शमितरैर्जनैः । तस्याधिज्यस्य यः कर्ता प्राणहर्ता तवापि सः ॥२५९॥
25
१. रथचक्रधारा । २. निर्दयः । ३. दुविनीताश्वः ।