SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ ८१६ ] [ पाण्डवचरित्रमहाकाव्यम् ॥ का नाम पामरेणास्तु सङ्गतिर्मतिशालिनः ? । तमस्काण्डेन चण्डांशोः सौहार्दं हन्त कीदृशम् ? ॥ किमारवैः शृगालानामिभारिः क्षुभ्यति क्वचित् ॥ फणिनः किं फणाटोपः कुर्यात्खगपतेः पुरः ॥ विषाय किं न पीयूषमपि स्यात्पन्नगेऽर्पितम् ? ॥ भिनत्ति कुम्भिनां कुम्भानिभारिः किं परिग्रहः ? ॥ भवत्यपेया पीयूषगर्गरी गरसङ्गिनी । सूत्रं तु पुष्पसंसर्गादारोहति शिरः सताम् ॥ मनोगतं विदन्त्येव नित्यं हृदयवासिनः ॥ महानद्योऽपि सुप्रापपाराः सत्युडुपे नृणाम् ॥ केन वा यूथमध्यस्थः कलभः परिभूयते ? | व्यवसायोऽन्यथा पुंसां विधातुः पुनरन्यथा ॥ नैसर्गिकी हि महतां गुर्वादेशैकतानता ॥ अवश्यंभाविनो भावा निवार्यन्ते न केनचित् ॥ पर्वसञ्जातयोगं हि चन्द्रं सत्कुरुते रविः ॥ अवज्ञा पामरोपज्ञं न क्रोधाय महात्मनाम् ॥ द्विषा विक्रमिणाऽऽक्रान्तः किन्नु कोऽपि प्रमाद्यति ? ॥ विशेषेणोपकर्तारः साधवो पकर्तरि ॥ भानुमान् विपदं हन्ति पङ्कजानां प्रगे प्रगे ॥ अप्युष्णं न हि पुष्णन्ति पयोदाः किमिरंमदम् ॥ यद्यप्यालोकयत्यस्तं पूर्णोऽसौ प्रतिपूर्णिमम् । तथाप्युपकोरत्येव चन्द्रं दर्शगतं रविः ॥ क्षते प्रक्षिपति क्षारं हा ! धिग्वेधाः पुनः पुनः ॥ नौचित्यविधौ सन्तः परौचित्यव्यपेक्षिणः ॥ राहुबन्दिग्रहो नैव सूर्याचन्द्रमसोर्भवेत् ? ॥ दुरात्मन्युपकारोऽपि नश्येन्नीरं मराविव ॥ द्रुह्यन्ति हि दुरात्मानः सुतरां सत्कृता अपि । दन्दशूको दशत्येव पीयूषमपि पायितः ॥ रणे हि बहुशः शूरा जीयन्ते च जयन्ति च ॥ विपदः स्मर्यमाणा हि कुर्युर्दुःखं पदे पदे ॥ महात्मस्वपि निस्त्रिंशं पिशुनानां हि मानसम् ॥ ८/२३० ८/२३१ ८/२३४ ८/२६६ ८/३०५ ८/३५३ ८/४०७ ८/४१२ ८/४१३ ८/४५१ ८/४६४ ८/४८५ ८/५३७ ८/५४१ ९/५८ ९/७९ ९/९४ ९/९६ ९/९७ ९/१३६ ९/१४७ ९/१४८ ९/१५२ ९/१६१ ९/१८९ ९/१९२ ९/२०८
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy