SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ [८१५ ७/४३८ ७/४३९ ७/४४७ ७/४४९ ७/४५७ ७/४६० ७/४६४ ७/४८९ ७/४९१ ७/५०० ७/५६५ परिशिष्टः [२] पाण्डवचरित्रमहाकाव्यगत सूक्तिरूपपद्यांशानाम्.... ॥] क्लिश्यन्ते हि महात्मानः परोपकृतिकाम्यया । तरणे: कारणं किन्तु ? यद्भ्राम्यति नभोऽङ्गणे ॥ दधत्यार्तं सुखीकर्तुं कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ॥ भस्मने भस्मसात्कुर्यात्को हि चन्दनकाननम् ? ॥ मांसैकलुब्धमनसो दैन्यगृह्या न राक्षसाः ॥ बलिनश्च विधातुश्च नियोगः केन लयते ॥ आश्रयद्रुमनाशे हि दीनाः क्रोशन्ति पक्षिणः ॥ भर्तुर्विपदमाच्छेत्तुमतिच्छेकाः कुलस्त्रियः ॥ इन्द्रनीलोपमर्दैन कः काचं परिरक्षति ? ॥ स्वल्पः कल्पतरुलॊके भूयांसोऽन्ये हि भूरुहः ॥ सदाऽप्यगोचरो वाचां महिमा हि महात्मनाम् ॥ तमस्काण्डेन चण्डांशुः किं कदाऽपि विलुप्यते ? ॥ दुष्टस्य यस्य नियूँढश्चण्डांशावपि चण्डिमा । ग्रसते स सुधारश्मि राहुरत्र किमद्भुतम् ॥ सन्तो हि नतवत्सलाः ॥ त्यजन्ति मणयस्तेजस्त्रपुणोपहिता हि किम् ? ॥ भवेद्धि तादृशी बुद्धिर्यादृशी भवितव्यता ॥ मतिविपर्येति वेधसि प्रातिकूलिके ॥ आपदः संपदो वाऽपि न स्युश्छन्ना महात्मनाम् ॥ न हि दावानलज्वाला सहन्ते मालतीलताः ॥ विरोधिनि विधौ पुंसां वृथैव स्युर्मनोरथाः ॥ कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः ? ॥ तमोपहा रवेरेव केवलं किरणावलिः ॥ दृष्टा मित्रैरमित्रैश्च संपत् संपन्निगद्यते ॥ अन्याश्चित्रातपापाये स्युर्धान्यस्य मुखे श्रियः ॥ व्यथन्ते पार्वणे चन्द्रे दृष्टे दन्ता हि दन्तिनाम् ॥ मषीभिः स्नपितः किं नु नीलिभिः किं नु रञ्जितः ? ॥ निर्मर्यादा ह्यकृत्येषु मत्सरच्छुरिताशयाः ॥ तपो हि विहितं तीर्थे भवेदिष्टार्थसिद्धये ॥ लुम्पन्ति हन्त मर्यादां दुर्जनाः सुजनेष्वपि ॥ ७/६०० ७/६९३ ८/२५ ८/७२ ८/८० ८/८३ ८/८५ ८/९५ ८/१०२ ८/१०७ ८/१०८ ८/१११ ८/११२ ८/१३६ ८/१६० ८/२०३ ८/२२७
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy