________________
६०]
5
10
[पाण्डवचरित्रमहाकाव्यम् । समुद्रविजयादीनाम् हर्षः ॥ तेनापि प्रहितं देवो विनीतमिव सेवकम् । एवं साक्षरमद्राक्षीत्पादाग्रे पतितं शरम् ॥१४३॥ कौतुकेन तमादाय व्यक्तां मुक्ताफलोपमाम् । तत्रोच्चैर्वाचयामास देवस्तामक्षरावलीम् ॥१४४॥ शवदाहमयं छद्म कृत्वाऽगाद्यः पुरा पुरात् । स ते पादाम्बुजं देव ! वसुदेवो नमस्यति ॥१४५॥ मुक्त्वा स्यन्दनमानन्द-स्यन्दमानाथुलोचनः । आगच्छ वत्स ! वत्सेति देवो जल्पंस्तमभ्यगात् ॥१४६॥ सोऽपि स्वरूपमास्थाय रथादुत्तीर्य वेगतः । ववन्दे देवपादाब्जं स्नपयन्नयनाम्बुभिः ॥१४७॥ गाढमालिङ्ग्य वेगेन स पुरो विनयान्वितः । कुत्र वर्षशतं वत्स ! स्थितवानित्यपृच्छ्यत ॥१४८॥ सोऽपि व्यज्ञापयद्देव ! त्वत्प्रभावादगञ्जितः । कृतरूपपरावर्तः स्वैरं भ्रान्तोऽस्मि भूतले ॥१४९॥ इत्थं तदा विदित्वा तं समुद्रविजयानुजम् । प्रमोदमेदुरं चेतो दधिरे रुधिरादयः ॥१५०॥ ततः स रोहिणी रोहद्विशेषप्रेमविक्लवाम् । उपायंस्त सदानन्दश्चन्द्रमा इव रोहिणीम् ॥१५१॥ शौरिं जगाद देवोऽथ वत्सा गच्छ निजां पुरीम् । ग्रहा अपि परक्षेत्राच्छ्लाध्याः स्वं क्षेत्रमागताः ॥१५२॥ ततः शौरिरभाषिष्ट त्वदादिष्टं तथेति मे । परं स्वपुरमेष्यामि कालेन कियताऽप्यहम् ॥१५३॥ स्नुषा वः शतशः सन्ति नरखेचरकन्यकाः । ततस्ताः शीघ्रमादाय प्रणन्तास्मि भवत्क्रमौ ॥१५४॥ एवमापृच्छ्य निर्बन्धात्स जगामोत्तरां दिशम् । देवोऽपि सपरिवार: पुरमात्मीयमाययौ ॥१५५॥
15
25
१. तौयिकेण । २. एकं प्रतिद्वय० । ३. देवेन इत्यऽपि पाठः । ४. अतिरस्कृतः । ५. लघुभ्रातृपत्न्यः-मम भार्याः इत्यर्थ ।