________________
द्वितीयः सर्गः । वसुदेवस्य मिलनम् ॥]
मन्मथाङ्कररोहिण्या रोहिण्याऽथ कटाक्षिताः । भूपाः स्वं रोचयाञ्चक्रुः स्फुटिताननचेष्टिताः ॥१३०॥ परं धात्रीपतेर्धात्र्या संकीर्तितगुणश्रियाम् । तेषामेकोऽपि रोहिण्या रोचते स्म न कश्चन ॥१३१॥ राज्ञोऽवज्ञाय सर्वांस्तानेकं पाटहिकं दृशा । ईक्षांबभूव साकाङ्क्ष सा मृगाक्षी मुहुर्मुहुः ॥ १३२॥ सोऽप्येवं वादयामास पटहं प्रकटाक्षरम् । अकालक्षेपमेणाक्षि ! स्रजा क्रीणीहि मामिति ॥१३३॥ गुणैः कुमुदकुन्देन्दुसुन्दरैः सा वंशवदा । तस्य कण्ठे निचिक्षेप स्रजं कुब्जकृतेरपि ॥ १३४॥ कृतकोलाहलाः सर्वे वृते पाणविके तया । जरासंधाज्ञया योद्धुमुपचक्रमिरे नृपाः ॥१३५॥ तं पाटहिकमप्यूरीकुर्वाणं रुधिरं प्रति । तं पराक्रमिणश्चक्रुः कुन्ताकुन्ति शरारि ॥ १३६॥ उद्बुद्धप्रबलक्रोधो रुधिरस्तानयोधयत् ।
न हि क्षुभ्यन्ति शौण्डीराः प्रत्यर्थिषु बहुष्वपि ॥१३७॥ अथ प्रत्यर्थिभूपाले रुधिरे विधुरीकृते । तैः समं तौर्यिकस्तूर्णं समरायोदतिष्ठत ॥१३८॥ नभश्चरोपनीतेन सायुधेन रथेन सः । तानेकोऽपि पिनष्टि स्म स वैरितिमिरार्यमा ॥ १३९ ॥ अबलं स्वबलं वीक्ष्य जरासंधो धराधवः । देवं समुद्रमादिक्षत्तस्याक्रमणहेतवे ॥१४०॥ तौर्यिकोऽयमिति ज्ञात्वा सावज्ञमभिषेणयत् । तेन निर्लुम्पता सैन्यं निन्ये देवोऽपि विस्मयम् ॥१४१॥
रूपाद्विसदृशं तेजस्तस्य पश्यन्स्वयं ततः । देव: शौर्यपुराधीशः शरं धनुषि संदधे ॥ १४२ ॥
[ ५९
१. स्पष्टितानेकचेष्टिताः इति प्रत्यन्तरत्रयपाठः । २. धात्र्यां । ३. रोहिण्यै इति प्रत्यन्तरपाठः साधुः । ४. हे मृगाक्ष ! |
5
10
15
20
25