________________
5
10
15
20
25
५८ ]
[ पाण्डवचरित्रमहाकाव्यम् । समुद्रविजयादीनाम् शोकः ॥
ततः शौरिः कृतोद्वेगो गुरूणामगुणैकभूः । विरचय्य चितामत्र कृशानुमविशत्स्वयम् ॥११७॥ तदेवं वाचयन्नेव देवो मूर्छामुपागमत् ।
ज्ञात्वा विपन्नं सोदर्यं को हि धैर्यं न मुञ्चति ? ॥११८॥ व्यलपच्चाप्तचैतन्यो हा ! वत्स ! गुरुवत्सल ! । दत्त्वा नः शोकमस्तोकमगमः कामिमा दशाम् ॥ ११९॥ भाग्यैकलभ्यं सौभाग्यं वसुदेवस्य संस्मरन् । राजानमनुचक्रन्द सर्वोऽपि विधुरो जनः ॥ १२० ॥ जनन्यास्तु सुभद्रायाः सुतशोकाशुशुक्षणिः । तथा नितान्तं जज्वाल प्राणानप्यहरद्यथा ॥ १२१ ॥ न गीतं गीतशालासु न लास्यं लास्यवेश्मनि । बभूव शौरिशोकेन न च तूर्यध्वनिः क्वचित् ॥ १२२॥ वसुदेवशुचा देवो न दिदेव शरद्यपि । वसन्ते च वसन् वेश्मन्यरोदीद्दीनलोचनः ॥ १२३॥ एवं वर्षाणि भूयांसि भूशक्रस्यातिचक्रमुः । एत्यान्यदा निमित्तज्ञो बभाषे क्रोष्टुकिर्नृपम् ॥ १२४॥ दिष्टादृष्टं निमित्तेन भृशं निश्चिन्वता मया । यज्जीवति प्रफुल्लश्रीर्वसुदेवो निरामयः ॥ १२५ ॥ एवं तद्गिरमाकर्ण्य कर्णपीयूषसारणिम् । भूयोऽपि राजकार्येषु किञ्चित्प्रावर्तत प्रभुः ॥१२६॥ स्वयंवरेऽथ रोहिण्याः सुताया रुधिराह्वयः । अरिष्टनगर स्वामी स्वामिनं नः समाह्वयत् ॥१२७॥ देवोऽपि बन्धुभिः सार्धं महर्धिकपरिच्छदः । शौरिशोकविनोदार्थं न कन्यार्थं पुनर्ययौ ॥१२८॥ जरासंधमहाराजप्रमुखे राजमण्डले । आसीने मञ्चमत्युच्चमध्युवास नृवासवः ॥१२९॥
१. पुत्रशोकाग्निः । २. चिक्रीड ।