________________
द्वितीयः सर्गः । वसुदेव वृत्तान्तः ॥ ]
कन्दर्पस्य सरूपेण रूपेणाक्षिप्तचेतसः । शौरिमेवानुधावन्ति त्यक्त्वा वेश्मानि नः स्त्रियः ॥१०४॥ अनुगामुकतां शौरेस्तासु प्राप्तासु सर्वतः । कलत्रकर्तृका काऽपि शुश्रूषा नास्ति नः प्रभो ! ॥१०५॥ अथ पृथ्वीपतिः प्रीत्या सान्त्वयित्वा विसृज्य तान् । वसुदेवं समाहूय रहस्येवं समादिशत् ॥१०६॥ वत्स ! स्वच्छन्दचर्याभिरभूरत्यन्तदुर्बलः । कुरु सर्वकलाभ्यासं सौधमध्यस्थ एव तत् ॥ १०७॥ कुर्वन्नुर्वीपतेराज्ञामेवं राजानुजोऽन्यदा । एकामपश्यदायान्तीं दासीमन्तःपुरोदरात् ॥१०८॥ विलेपनं करात्तस्याः सोऽलुम्पन्नर्मलीलया । ततः सकोपं साक्षेपं वसुदेवं जगाद सा ॥ १०९॥ कुमार ! मेदुर्रामोदमङ्गरागं किमाच्छिदः ? । देवाय शिवया देव्या प्रेमतः प्रहितो ह्यसौ ॥११०॥ सौधमध्ये निरुद्धोऽसि स्थाने देवेन धीमता । विशत्यविनयादेव पञ्जरे सिंहशावकः ॥ १११ ॥ साऽथ पृष्टा कुमारेण निजसंरोधकारणम् । तत्पुरे पौरवृत्तान्तं सर्वं मूलादचीकथत् ॥ ११२ ॥ ततो म्लानमुखाब्ज श्रीर्व्यतीत्य कथमप्यहः । वसुदेवो विभावर्यामेकाक्येव क्वचिद्ययौ ॥११३॥ प्रातरन्वेषणे पूर्वप्रतोलीद्वारि दूरतः । दग्धमानुषसंस्थानो भस्मराशिरदृश्यत ॥११४॥ प्रतोल्यां लम्बमानं च पत्रमेकमुदैक्ष्यत । शुचोच्चैर्वाचयामास समुद्रविजयः स्वयम् ॥११५॥ पुंसो यस्य गुरून्यावदुपालम्भः प्रवर्तते । तस्य श्रेयस्करो मृत्युर्जीवितं तु पाकरम् ॥ ११६॥
[ ५७
१. अतिसुगन्धम् । २. स्थाने इति सम्यगर्थेऽव्ययम् । ३. तच्चो । ४. गुरुन् यावत्- गुरुसमीपे
इति भावः ।
5
10
15
20
25