________________
5
10
15
20
25
५६ ]
[ पाण्डवचरित्रमहाकाव्यम् । कंसस्य धृष्टता ॥
अस्यायमवदातस्य कंसः कर्तेति सादरम् । नृपो निवेदयामास मगधानां महीभुजे ॥ ९१ ॥ ततः प्रीत्या ददौ पुत्रीं कंसाय मगधेश्वरः । प्रतिपन्नं युगान्तेऽपि नान्यथा हि महात्मनाम् ॥९२॥ उग्रसेननृपद्वेषान्मथुरामेव सादरम् ।
कंसाय याचमानाय स दत्ते स्म प्रसादतः ॥९३॥
अथ सिंहरथोऽप्युच्चैरुत्खातः प्रतिरोपितः । नत्वा प्रसादयामास तं फलैः कलभो [भं? ] यथा ॥९४॥ जरासंधेन सत्कृत्य विसृष्टाः स्वपुरं प्रति । जग्मुस्तिग्मेन वेगेन समुद्रविजयादयः ॥ ९५ ॥ सत्यसंधजरासंधसमर्पितबलो बली । कंसस्तु मथुरां गत्वा तातं निष्करुणोऽरुधत् ॥९६॥ सेनाभिरुग्रसेनोऽपि तेन सार्धमयुध्यत । अखिद्यत जयश्रीस्तु तयोर्युद्धे गतागतैः ॥९७|| कथञ्चनापि निर्जित्य कंसः क्रूरशिरोमणिः । साक्षेपचेताश्चिक्षेप पितरं काष्ठपञ्जरे ॥९८॥ दृढं निगडबद्धोऽपि ज्ञाते तस्मिन्निजात्मजे । सुतेन विजितोऽस्मीति पिता तु मुदमावहत् ॥९९॥ सुभद्रवणिजं शौर्यपुरादानाय्य सोऽञ्जसा । कृतज्ञमानी सम्पूज्य पर्युपास्ते स्म तातवत् ॥१००॥ इतश्च केलिशैलेषु प्रासादेषु वनेष्वपि । शौरिः शौर्यपुरेऽत्यन्तं विजहार यदृच्छया ॥१०१॥ वसुदेवः सुनेत्राणां नेत्राणाममृताञ्जनम् । मनसस्तु सदा ध्येयो मन्त्रोऽभूच्चतुरक्षरः ॥१०२॥ समुद्रविजयः पौरैरेत्य विज्ञापितोऽन्यदा । देव त्वयापि नाथेन वयमत्यन्तदुःखिताः ॥१०३॥