________________
अष्टादशः सर्गः । पाण्डवमुनीनां शोकः ॥ ]
निर्वापिते चिताग्नौ च मेघैः क्षीरोदवारिभिः । देवैर्भूपैर्जनैश्चान्यैरस्थ्यादि जगृहे प्रभोः ॥ २५२॥ तस्मिश्च वह्निसंस्कारपूतेरत्नशिलातले । सूत्रामा सूत्रयामास श्रीनेमिजिनमन्दिरम् ॥२५३॥ आनम्यानम्य तत्रस्थां स्वामिनः प्रतिमां ततः । साश्रुः सुरनरेशादिः स्वं स्वं स्थानं ययौ जनः ॥२५४॥ विद्याधरमुनेर्वाचमित्युपश्रुत्यः दुःश्रवाम् । दशां दुःखमयीं काञ्चित् पाण्डवेयाः प्रपेदिरे ॥२५५॥ जल्पन्ति स्म च भाग्यं नः सर्वथा प्रतिलोमिकम् । यन्न सीरभृता नापि स्वामिना सङ्गमोऽभवत् ॥ २५६॥ त एव जगति स्तुत्यास्ते त्रिलोकीविशेषकाः । धन्या माता तदीयैव तज्जन्मैव फलेग्रहि ॥ २५७॥ येषां दीक्षोत्सवः स्वामिपाणिना पावितोऽभवत् । अविश्रान्तं पिबन्ति स्म स्वामिवागमृतं च ये ॥२५८॥ युग्मम् | धन्येष्वपि हि धन्यास्ते ते च श्लाघ्यतमाः सताम् । स्वामिनैव समं येषां निर्वाणमहिमाऽप्यभूत् ॥२५९॥ इयताऽपि कृतार्थत्वं यद्व्रतं समपादि नः । चेत्तु प्रभुरपीक्ष्येत तत्स्यात्तस्यापि मञ्जरी ॥२६०॥ प्रभोर्वागमृतैश्चेन्नः सिच्येतायं तपस्तरुः । ततो वाङ्मनसातीतं किमप्येष फलेद् ध्रुवम् ॥२६१॥ किं पुनर्भाग्यशून्यानां फलन्ति न मनोरथाः । न जातु स्याद्दरिद्रस्य कल्पद्रुमसमागमः ॥२६२॥ तत्तावज्जगृहेऽस्माभिर्दुस्तरोऽयमभिग्रहः । यद्वयं पारयिष्यामो दृष्टे स्वामिनि नान्यथा ॥ २६३ ॥ तत्तमेव पुरस्कृत्य प्रत्यासन्ने नगोत्तमे । आरुह्य विमलाख्येऽस्मिन्कुर्महे निजमीप्सितम् ॥२६४॥
१. स्वामिन् प्रतित्रये० ।
[ ७१७
5
10
15
20
25