SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ७१६] [पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिनिर्वाणम् ॥ ततोऽस्मिन्नुल्लसद्धर्मध्वजमञ्जरिताङ्गणे । राकाहिमकराकारजैत्रच्छत्रत्रयोल्बणे ॥२३८॥ यथास्थानं समासीन(ने)सुरासुरनरेश्वरे । सिंहासनमलंकृत्य कृत्यवित्पूर्वदिङ्मुखम् ॥२३९॥ मोक्षं प्रति प्रतिष्ठासुर्विश्वानुग्रहकाम्यया । चिरं चकार भगवानन्तिमां धर्मदेशनाम् ॥२४०॥ प्रतिबुद्धास्तया केचिद्वतमाददिरे क्षणात् । श्रावकत्वं परे भेजुरन्ये भद्रकतां पुनः ॥२४१॥ ततः परीतः साधूनां षट्त्रिंशैः पञ्चभिः शतैः । पादपोपगमं चक्रे मासिकानशनं विभुः ॥२४२॥ ततः शुचिसिताष्टम्यां चित्रायां चित्रिताशयैः । सङ्गतः परितः शक्रप्रमुखैस्त्रिजगज्जनैः ॥२४३॥ साधुभिः सहितः शुद्धशैलेशीध्यानबन्धुरः । आशु लम्भितवान्सर्वं कर्मजातं निरंशताम् ॥२४४॥ साग्रमब्दसहस्रायुर्जगदेकदिवाकरः । निर्व्याबाधसुखं स्वामी निर्वाणपदवीं ययौ ॥२४५॥ त्रिभिर्विशेषकम् । ततः कुमाराः प्रद्युम्नसाम्बाद्याः सत्त्वशालिनः । रथनेम्यादयः स्वामिभ्रातरश्च तरस्विनः ॥२४६॥ कृष्णस्याष्टौ महिष्यश्च तथैव मुनयोऽपरे । साध्व्यश्च राजीमत्याद्या भूयस्यः शिवमासदन् ॥२४७।। प्रभोर्माता शिवादेवी समुद्रविजयः पिता । सहैव सर्वैर्दाशार्हर्देवभूयमुपा(पे)यतुः ॥२४८॥ युग्मम् । कुबेरः शिबिकां शक्रशासनाद् व्यकरोत्क्षणात् । हरिविधिवदभ्यर्च्य न्यधात्तस्यां वपुः प्रभोः ॥२४९॥ गोशीर्षचन्दनाद्यैश्च काष्ठै रत्नशिलातले । वितेनुर्दिशि नैर्ऋत्यां त्रिविष्टपसदश्चिताम् ॥२५०॥ उत्पाट्य शिबिकां तत्र नीत्वा तस्यां विभोर्वपुः । स्वयं तस्याग्निसंस्कारं वासवोऽकारयत्सुरैः ॥२५१॥ 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy