________________
[७१५
अष्टादशः सर्गः । चारणश्रमणमहात्मनां कथनम् ॥]
मा स्म निर्भाग्यधौरेयाः पुरस्तादेव तं विभुम् । निर्वाणपदवी प्राप्तं न वन्दिष्यामहे वयम् ॥२२४॥ परस्कत्येति तं वेगान्मनि रैवतकं प्रति । श्रीमन्नेमिजिनं नन्तुं पाण्डवेयाः प्रतस्थिरे ॥२२५।। अविश्रान्तं व्रजन्तस्ते दर्शनोत्कण्ठिताः प्रभोः । हस्तिकल्पं पुरं जग्मुर्मासक्षपणपारणे ॥२२६॥ नगरेऽस्मिन् विशन्तस्ते धर्मघोषमुनीश्वरम् । व्यज्ञापयन्निति प्रीत्या निपत्याङ्ग्रिसरोरुहे ॥२२७।। प्रभो ! रैवतकोऽमुष्मात्पुरावादशयोजनीम् । प्रगेतनप्रयाणेन तत्र प्रायो गमिष्यते ॥२२८॥ तददृष्टे विट(ष्ट)पाधीशे पारणाविधिरस्तु नः । इत्यभिग्रहमातेनुस्ते तरङ्गितसम्मदाः ॥२२९॥ प्रविश्याथ पुरे तस्मिन्नुज्जयन्तगिरेः पथा । जनानागच्छतो वीक्ष्य श्यामीभूतास्यपङ्कजान् ॥२३०॥ क्षणं यावदमी तस्थुः किञ्चिच्चकितचेतसः । चारणः श्रमणः कश्चित्तावदागाद्विहायसा ॥२३१॥ परिम्लानमुखो धर्मघोषाय. विहितानतिः । प्रणम्य पाण्डवैः पृष्टः स व्याचष्टेति शिष्टधीः ॥२३२॥ सन्नकर्मारिरासन्नं ज्ञात्वा निर्वाणमात्मनः । भगवान्समवासार्षीदेत्य रैवतकाचले ॥२३३॥ रूप्यकाञ्चनमाणिक्यमय वप्रत्रयाङ्कितम् । नानामणिप्रभाजालकेलिभिर्खप्तगोपुरम् ॥२३४॥ सर्वतो रत्नभित्त्यन्तःसङ्क्रान्तप्रतिमाच्छलात् । एकाशोकमपि व्याप्तमशोकविपिनैरिव ॥२३५॥ आनन्दानामुपादानं निदानं पुण्यसम्पदाम् । सुरा विरयचाञ्चक्रुर्देशनागारमन्तिमम् ॥२३६।। त्रिभिर्विशेषकम् । विकुर्वन्ति स्म गीर्वाणाः ककुप्सु चतसृष्वपि । तस्यान्तर्भूरिमाणिक्यभासुरां चतुरासनीम् ॥२३७॥
15
20
25