________________
अष्टादशः सर्गः । रामर्षेः स्वर्गमनम् ॥]
तन्मनोवृत्तिमालोक्य श्रद्धातिशयबन्धुराम् । रौहिणेयमुनिश्चित्ते चिन्तयामासिवानिति ॥१९६॥ अहो ! महात्मनोऽमुष्य भावः कोऽप्येष निस्तुषः । एवमानन्दवैक्लव्यमिदानीं यद्दधात्यसौ ॥१९७॥ तनोति कृतिनां भाग्यं भावस्तात्कालिकोऽपि यत् । मूलादुन्मूल्यते तेषां तेनैव भवभूरुहः ॥१९८॥ तन्महात्मायमारूढस्तस्मिन्भावेऽस्ति सम्प्रति । यस्मिन्करप्रचेयानि मन्ये मुक्तिसुखान्यपि ॥ १९९॥ ततोऽङ्गाधारमात्राय प्रान्ताहारेच्छुरप्यहम् ।
न भावस्खलनं किञ्चित्करिष्येऽस्य विवेकिनः ॥ २००॥ ततो राममुनिर्भैक्ष्यमादातुमुपचक्रमे ।
दातुं च रथकृद्वर्गग्रामणीर्मुदिताशयः ॥ २०१ ॥ तावुभावपि संवीक्ष्य दातृपात्रशिरोमणी । स कुरङ्गोऽपि संवेगभावनामित्यभावयत् ॥२०२॥ अहो धन्योऽयमेवाद्य ग्रामणीविपिनच्छिदाम् । यस्य प्रादुरभूत्पुण्यप्राग्भारोऽयमचिन्तितः ॥२०३॥ मुनिभ्यो दत्तमीदृग्भ्योऽन्यदाऽपि शिवसम्पदे । किं पुनस्तद्यदेतस्मिन्मासक्षपणपारणे ॥२०४॥ अहं तु न तपः किञ्चित्कर्तुमल्पमपि क्षमः । छिद्यन्ते कर्मणां मर्मग्रन्थयो येन तत्क्षणात् ॥२०५॥ न चैतादृग्विधं किञ्चिद्दानं दातुमपीश्वरः । हा ! हतोऽहमिदं जन्म धिङ् मे तिर्यक्त्वपांसुरम् ॥ २०६॥ इत्यमीषां परां कोटिमीयुषां भावसम्पदः । उपरिष्टात्पपातार्द्धच्छिन्नो वात्याहतस्तरुः ॥ २०७॥ तन्निपाताभिघातेन ते त्रयोऽपि गतासवः । कल्पे ब्रह्माभिधेऽभूवन्नमरास्तुल्यसम्पदः ॥ २०८॥ तिर्यड्नरामरानित्थं प्रतिस्थानं प्रबोधयन् । बभार व्रतपर्यायं सीरभृद् वत्सरान् शतम् ॥२०९॥
[ ७१३
5
10
15
20
25