________________
5
10
15
20
25
७१२]
[ पाण्डवचरित्रमहाकाव्यम् । राममुनेः भिक्षार्थेगमनम् ॥ कश्चित्तु प्राग्भवप्रीतिभावाज्जातिस्मरो मृगः । कल्याणभक्तिरश्रान्तमुपासामास तं मुनिम् ॥१८२॥ भ्रान्त्वा भ्रान्त्वा च सोऽजस्रं सार्थमावासितं वने । गृहीतान्नांश्च काष्ठादिहारकानगवेषयत् ॥१८३॥ यदा चैक्षिष्ट तान् क्वापि तदैवागत्य सत्वरम् । सङ्केतैः प्रणिपाताद्यैः स रामर्षिमजिज्ञपत् ॥१८४॥ पारयित्वा ततो ध्यानं रामस्तस्यानुरोधतः । तद्दर्शितपथो भैक्ष्यं सार्धादिभ्योऽग्रहीत्तदा ॥ १८५ ॥ हर्म्याद्यर्हाणि साराणि काष्ठान्याहर्तुमन्यदा । रथकारास्तदाऽभ्येयुर्भूयांसः काननोदरम् ॥१८६॥ भ्राम्यन्नेणः स तान्वीक्ष्य मासक्षपणपारणम् । विधातुमनसे राममुनयेऽज्ञापयद् द्रुतम् ॥१८७॥ तेनाग्रगामिना सोऽपि निराकाङ्क्षमना मुनिः । ईर्याचतुरचक्षुस्तानुत्ससर्प वनच्छिदः ॥१८८॥ छेदं छेदं तरुन् सारान् तेऽपि मध्यंदिने तदा । नानारसवतीपाकाः समगच्छन्त भुक्तये ॥ १८९ ॥ धर्मं साक्षादिवायान्तं दूरादालोक्य तं मुनिम् । सानन्दो रथकाराणामग्रणीरित्यचिन्तयत् ॥१९०॥ धवादिशाखिनामेव स्थानेऽस्मिन् विपिने कथम् । कल्पद्रवोऽपि दृश्यन्ते ? भाग्यं नस्तदहो महत् ॥१९१॥ ऐहिक श्रीफलाः कामं तेऽपि कल्पद्रवोऽथवा । एते तु मुनयः स्वर्गापवर्गकमलाफलाः ॥१९२॥ तदद्य खलु धन्योऽस्मि स्तुत्यमद्यैव जन्म मे । जातं सफलमद्यैव वनागमनमप्यदः ॥ १९३॥ इत्यादि चिन्तयन्नन्तरुन्मीलत्पुलकाङ्कुरः । अभ्युत्थाय स भून्यस्तमौलिस्तं मुनिमानमत् ॥१९४॥ प्रासुकैरेषणीयैश्च तैस्तैरानन्दितेन्द्रियैः । पीनप्रीतिः सपानान्नैरुपतस्थे बलं मुनिम् ॥ १९५॥