________________
अष्टादशः सर्गः । रामर्षेः प्रभावः ॥]
[७११ गत्वा स्वस्वनरेन्द्रेभ्यः शशंसुरतिविस्मिताः । अधृष्यश्रीर्वने कश्चित्तपस्यति पुमानिति ॥१६९॥ युग्मम् । भीतान्त:करणास्तेऽपि भूभुजस्तुच्छचेतसः । स्वतुल्यकलिताशेषजगतोऽन्तरचिन्तयन् ॥१७०॥ नूनमन्यूनमाहात्म्यतपःपल्लवितोर्जितः । कोऽप्यसावस्मदीयानि राज्यान्याच्छेतुमिच्छति ॥१७१॥ तत्सम्प्रत्येव तं हन्म इत्यालोच्य महीभुजः । सर्वे सर्वाभिसारेण तं झगित्यभ्यषेणयन् ॥१७२॥ ततः पादातिकाश्वीयरथ्यहास्तिकशालिनः । अभ्येत्यास्मिन्वने यावत्ते रामं परितः स्थिताः ॥१७३॥ तावत् सिद्धार्थदेवेन नित्यं रामोपसेविना । सिंहाः फलाक्रियोत्ताला विकीर्यन्ते स्म कोटिशः ॥१७४॥ तैश्च वित्रासिताशेषसैनिकास्तेऽवनीभुजः । तत्क्षणक्षुभितस्वान्ता न्यवर्तन्त प्रणम्य तम् ॥१७५॥ तदा प्रभृति निःसीमशमैकनिरतेरपि । रामस्य भुवने नाम नृसिंह इव पप्रथे ॥१७६॥ पश्यतोऽथ शमं तस्य शीतांशुपरिभाविनम् । लक्षयन्तोऽपरिक्षामां भूतग्रामे दयार्द्रताम् ॥१७७।। विन्दानाः समपिण्याक-हिरण्यां च निरीहताम् । शृण्वानाश्च गिरं धर्ममयीममृतजित्वरीम् ॥१७८॥ क्रूरा अप्युज्झितक्रौर्याः शमैकमयचेतसः । सर्वेऽप्यत्र वने वन्याः प्रत्यबुध्यन्त जन्तवः ॥१७९॥ त्रिभिर्विशेषकम् । सम्यक्त्वं जगृहुः केचित्ते देशविरतिं परे । अन्ये च भद्रकीभूय पापकर्माणि तत्यजुः ॥१८०॥ चक्रिरेऽनशनं केचित्कायोत्सर्गं व्यधु परे । शिष्या इवान्ये रामरासन्नासन्नसेविनः ॥१८१॥
15
25
१. प्राणिसमूहे । २. पिण्याक:-तिलखलः ।