________________
10
अष्टादशः सर्गः । गुरुदर्शनम् ॥]
[७०९ ततो भीममुनिर्भीममित्यभिग्रहमग्रहीत् । कुन्ताग्रदत्तमेवोञ्छमादास्ये नान्यथा पुनः ॥१४३॥ तस्य पुण्यात्मनः सोऽपि मासैः षड्भिरपूर्यत । न किञ्चिदतिदुर्लम्भं सत्त्वनिर्णिक्तचेतसाम् ॥१४४।। प्रतिस्थानं प्रतिग्रामं प्रत्यध्व प्रतिकाननम् । जनं धर्ममयैस्तैस्तैर्वचोभिरुपकुर्वताम् ॥१४५॥ एवं तेषां तपस्तत्तन्महाभिग्रहदुस्तरम् । कुर्वतां खर्वतां नित्यं नयतां कर्मसंहतिम् ॥१४६॥ स्वदेहेऽपि निरीहाणामविरामविहारिणाम् । हायनान्यतिभूयांसि व्यतीयुः पाण्डुजन्मनाम् ॥१४७॥ त्रिभिर्विशेषकम् । अथ नित्यविहारेण विहरन्तोऽवनीतले । कदाचिदपि ते जग्मुस्तुङ्गीशैलान्तिकक्षितिम् ॥१४८॥ धर्मघोषगुरुं तस्य शैलस्योपत्यकावने । ते जनादागतं श्रुत्वा वन्दितुं मुदिता ययुः ॥१४९॥ अद्राक्षुश्च गुरुं द्राक्षापाकपेशलया गिरा ।। दिशन्तं विशदं धर्मं तिर्यङ्मर्त्यदिवौकसाम् ॥१५०॥ दूरादालोक्य तान्सोऽपि गुरुः प्रीतितरङ्गितः । प्रत्युद्याति स्म विस्मेर: सम्भ्रमादुज्झितासनः ॥१५१॥ आनन्दाथकणाकीर्णपक्ष्माणो रोमहर्षिणः । ते पदाम्भोरुहक्षिप्तमौलयस्तं ववन्दिरे ॥१५२॥ तानुत्थाप्य करे धृत्वा प्रीतिगद्गदया गिरा । विकस्वरकपोलाक्षः पप्रच्छ स्वागतं गुरुः ॥१५३॥ पुनरासनमासीने गुरौ तेऽभ्यर्णभूतले । वन्दिताः परिषद्देवनृतिर्यग्भिरुपाविशन् ॥१५४॥ पण्यार्जनकुते सर्वसदस्यानां विशेषतः । तत्तपःप्रौढिमुद्दिश्य वितेने देशनां विभुः ॥१५५॥
१. स्तुङ्गी' प्रत्यन्तरे० ।