________________
5
10
151
20
25
७०८]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डवमुनीनां विहारादिः ॥ तप्यन्ते स्म तपस्तेऽभिग्रहोदग्रं पृथक्पृथक् । येन स्वं पवितुं शङ्के साऽप्यैच्छन्मुक्तिकामिनी ॥१३०॥ सम्भाव्य सुभटं शत्रुजित्वरं निजमात्मजम् । मोहदुर्विषहोत्साहः श्रीमान्धर्मः किमप्यभूत् ॥१३१॥ धर्मसूतेः सदा शान्तिहिमानीमहिमोदयः । जगत्यपि महामोहग्रीष्मारम्भं वृथाऽकरोत् ॥१३२॥ धावन्तो विद्विषः स्वान्तःपुरमादातुमन्तरा । के नामज्जंस्तपः सूनोः प्रशान्तिपरिखाम्भसि ? ॥१३३॥ भीमस्याभूद्यथा सत्त्वं दुर्लङ्घ्यमरिभिः पुरा । सम्प्रत्यपि तथैवासीदान्तरैः परिपन्थिभिः ॥ १३४॥ · यथा यथाऽरिषड्वर्गनिग्रहेऽभूदुरुंतुदः ।
तथा तथा दधौ चित्रं भीमः कायमभीषणम् ॥१३५॥ भीमोऽन्तर्विद्विषः क्षान्तिगदयाऽदलयत्तथा ।
यथा नामापि नाश्रौषीदेष तेषां पुनः क्वचित् ॥१३६॥ अर्जुनस्य मुनेर्जीयात्तपो गाण्डवीताण्डवम् । येन जैनगवीवर्गः सूत्रितो निरुपद्रवः ॥१३७॥ विधाय समताराधावेधं प्रशमपत्रिणा । पार्थः पाणौ करोति स्म परमानन्दसम्पदम् ॥१३८॥ ध्यानवैश्वानरः पार्थमुनेरजनि कोऽप्यसौ ।
यस्य क्रोधाग्निरेवाभूदिन्धनं प्रज्वलिष्यतः ॥ १३९॥ नकुलस्य तपोऽम्भोधेर्निर्गतं यच्छमामृतम् । प्रीयन्ते स्म सुरास्तेन तत्किं नामात्र कौतुकम् ॥१४०॥ मन्ये मुनिषु सर्वेषु सहदेवोऽधिदैवतम् । तपस्तरणिना यस्य ज्ञानेन्दुरुपजीवितः ॥१४१॥ जीयते स्म पुरा पाण्डुसूनुभिर्द्विषतां शतम् । तत्तदा जेतुमीषेऽष्टाचत्वारिंशं तु कर्मणाम् ॥१४२॥
१. काममभीमताम् प्रतिद्वय । २. ममता - प्रतिद्वय० ' ।