SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ [७०५ अष्टादशः सर्गः । बलदेवस्य-साधना ॥] जवाद्यतिरहस्यानां जज्ञे विज्ञश्च तेत्क्षणात् । भूयान्न खलु संस्कारो जात्यरत्नैरपेक्ष्यते ॥९०॥ साम्प्रतं च तपःकर्म कुर्वन्षष्ठाष्टमादिकम् । तुल्यान्त:करणाकारो लोष्टेऽप्यष्टापदेऽपि वा ॥११॥ शमाद्वैतसुधाकुण्डस्नानशौण्डमनाः सदा । तानप्यति हि मन्वानो नाकिन: क्लेशपाकिनः ॥९२॥ वैरङ्गिकः शरीरेऽपि जीवितव्येऽप्यरागवान् । अरिष्वपि निरातङ्को निःशङ्को विपिनेष्वपि ॥१३॥ धर्मामृतमयैः शान्तैस्तैस्तैर्वचनवीचिभिः । तत्र तत्र जनांस्तांस्तानुपकुर्वन्नखर्वधीः ॥९४॥ अरण्यनगरग्रामकर्बटेषु समीरवत् । स्वैरमप्रतिबद्धात्मा विहरत्येककुण्डलः ॥९५॥ पञ्चभिः कुलकम् । तत्सपर्याभिरश्रान्तं कृतार्थमन्यमानसः । सिद्धार्थदेवश्छायेव तस्याभ्यर्णचरोऽभवत् ॥९६।। एकतो भगवान्नेमिरन्यतश्च स धीरधीः । मेदिनीमुपकुर्वाते सूर्याचन्द्रमसाविव ॥९७॥ तत्तयोर्बन्धवो मार्गमाश्रित्याशु तदाश्रितम् । निरीहमनसो यूयमप्येवं कर्तुमर्हथ ॥९८॥ एकैव सन्मणीनां हि लोकालङ्करणं गतिः । ध्वान्तध्वंसाहते कृत्यं प्रदीपानां च नापरम् ॥१९॥ द्विषः क्षिप्ताः कृतं राज्यं भुक्तमप्रतिमं सुखम् । किञ्चिद्वस्तन्न संसारे यदद्याप्यवशिष्यते ॥१००॥ केवलं तत्सुखाद्वैतं मुक्तेर्भोक्तव्यमस्ति वः । तद्दातरि व्रते तस्मात्कालक्षेपो नहि क्षमः ॥१०१॥ इत्युच्चैर्विहितोत्साहा धर्मघोषगुरोगिरा । संसारं झगिति त्यक्तुमैषिषुः पाण्डुसूनवः ॥१०२॥ १. 'तन्मुखात्' प्रतिद्वये । २. सुवर्णे । ३. बलरामः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy