________________
७०४]
[पाण्डवचरित्रमहाकाव्यम् । बलदेवस्य सर्वविरति स्वीकृतिः ॥ बन्धवः खल्ववाप्यन्ते जीवैर्जन्मनि जन्मनि । किं तु ते मोहसैन्यैककेतवो भवहेतवः ॥७७॥ जीवाः सर्वे हहा ! बन्धुसंहतिस्नेहमोहिताः । दुःखप्लोषक्षमे कर्मण्युत्सहन्ते न जातुचित् ॥८॥ बन्धुस्नेहोऽत(न्त)रम्भोधिरेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्रामधाम तद्विधुनीहि तम् ॥७९॥ इति सिद्धार्थदेवोक्तां गिरमाकर्ण्य लाङ्गली । जल्पति स्म त्वया बन्धो ! साधु साध्वस्मि बोधितः ॥८०।। किं तु मे कथय भ्रातर्धातुरस्य मुरद्विषः । मृत्युनाऽत्यन्तदुःखार्तः प्रवर्ते क्वात्मनो हिते ? ॥८१॥ देवोऽभ्यधान्ननु भ्रातस्त्रिलोकीकल्पपादपः । . अस्त्येव भगवान्नेमिर्दुःखार्तीनामरंतुदः ॥८२॥ श्रेय:पीयूषवर्षेकप्रावृषं तत्पदान्तिके । दीक्षामादाय शाश्वत्यामुद्यच्छस्व सुखश्रिय(या)म् ॥८३॥ तथेति प्रतिपेदानस्तगिरं सीरभृत् ततः । तत्समेतो मुरारातेरग्निकर्मादि निर्ममे ॥८४॥ ततोऽसौ यावदत्यन्तं संयमोत्सुमानसः । लाङ्गली तावदद्राक्षीद्विद्याधरमृर्षि पुरः ॥८५।। प्रत्युद्गम्य प्रणम्याथ रोहिणीतनयः क्षणात् । पप्रच्छ स्वागतं हर्षबद्धोत्कर्षमनामुनिम् ॥८६॥ मुनिरप्यभ्यधाद्भद्र ! विश्वभद्रंकरः प्रभुः । श्रीमन्नेमिर्दुतं ज्ञातत्वन्मनाः प्रजिघाय माम् ॥८७।। तत्कुरुष्व मनोऽभीष्टं पुष्टये पुण्यसम्पदाम् । कालोऽयमेव दुष्कर्मश्रेणिमर्मच्छिदे तव ॥८८॥ इत्युत्साहाग्रमानीतो नभश्चरमुनेगिरा । प्रपेदे सर्वसावद्यविरतिं सीरभृत् क्षणात् ॥८९॥
15
25