________________
७०२]
[पाण्डवचरित्रमहाकाव्यम् । बलदेवस्य प्रतिबोधः ॥ स्कन्धन्यस्तहरिबन्धुस्नेहव्यामोहितो हली । भ्राम्यति स्म सरिच्छलकाननानि दिवानिशम् ॥५१॥ पुष्पैर्वन्यद्रुमाणां च नित्यमानर्च शाङ्गिणम् । एवं रामोऽतिचक्राम षण्मासान्पर्यटन् वने ॥५२॥ प्राप प्रावृडथाऽऽशान्तान् नीलयन्ती बलाहकैः । नूतनैरङ्करोद्गारैर्मेदिनीमण्डलं पुनः ॥५३॥ अथ ग्रावमयं शैलादुत्तीर्णं हेलया हली । स्यन्दनं कञ्चिदद्राक्षीत्समभूभागभङ्गुरम् ॥५४॥ सञ्जयंतं जजल्पेऽथ सारथिः सीरपाणिना । रथेऽस्मिन्कणशो भग्ने कस्ते मूढ ! मुधा श्रमः ? ॥५५॥ सारथिस्तमथोवाच सङ्गरेषु सहस्रशः । नियूढोऽप्यधुना पादप्रहारेणापि यो मृतः ॥५६॥ सोऽयं चेद्विश्वजीवातु र्जीविता तव बान्धवः ।। खण्डशस्तद्गतोऽप्येष प्रगुणीभविता रथः ॥५७।। क्व मे बन्धुर्मृतोऽस्तीति कामं सासूयमानसः । तं मुहुः कुटिलं पश्यन्नचालील्लाङ्गली पुरः ॥५८॥ रोपयन्तं निरूप्याथ शिलायां नलिनी क्वचित् । सारम्भमभ्यधात्कञ्चिदुच्चैः शब्दं हसन् हली ॥५९॥ व्यामूढात्मन् ! किमेतस्मिन्नत्यन्तकठिनेऽश्मनि । सहस्रैरपि यत्नानां प्ररोहति सरोजिनी ? ॥६०॥ सोऽप्यवादीत्तवायं चेत्प्राणिष्यति सहोदरः । पाषाणे तत्खरेऽप्यस्मिन्प्ररोक्ष्यत्यरविन्दिनी ॥६१॥ इत्येतस्यापि भारत्यामवज्ञाविवशाशयः । व्यक्तोत्प्रासस्मितस्मेरश्चचाल मुसली पुरः ॥६२॥ ततो दावाग्निनिर्दग्धं सिञ्चन्तमवनीरुहम् । कञ्चिदारामिकं रामः पश्यति स्म व्रजन्पुरः ॥६३॥
15
20
25
१. दिगन्तान् । २. मेघैः । ३. उत्प्रासः-उपहासः ।