________________
अष्टादशः सर्गः । बलदेव - विलापः ॥ ]
हा ! विश्वेष्वेकशौण्डीर ! हा ! रिपुष्वेकरोषण ! । हा ! गुणिष्वेकधौरेय ! हा ! गुरुष्वेकवत्सल ! ॥३७॥ हा ! कंसध्वंस घोरांस ! हा ! कालानलनीरद ! । हा ! निःसन्धजरासंध ! हा ! रणक्रूरविक्रम ||३८|| हा ! लक्ष्मीकेलिपल्यङ्क हा ! निःशङ्कशिरोमणे ! । हा ! यश:कैरवाराम ! हा ! रामनयनोत्सव ! ॥३९॥ शस्त्राघातैर्द्विषां तैस्तैः श्रमोऽप्यासीन्न ते पुरा । सम्प्रत्यङ्घ्रिव्रणादस्मान्मृत्युः श्रद्धीयतां कथम् ? ॥४०॥ तदुत्तिष्ठ द्रुतं भानुरारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयोऽप्यग्रतो गन्तुमीश्वहे ॥४१॥ चरणव्रणपीडाभिर्न चेच्चलितुमीशिषे ।
तदाऽऽरोह मम स्कन्धं बन्धो ! किमसि मोहितः ? ॥ ४२ ॥
किमिति क्रन्दतोऽप्येवं वितरस्युत्तरं न मे ? | इमे हि श्रवसी पातुमुत्सुके ते वचोऽमृतम् ॥४३॥ रोषं मयि पुराऽकार्षीः साऽऽगस्यपि न जातुचित् । इदानीं तु विनाऽप्यागः केयं ते दीर्घरोषिता ? ॥४४॥ हा ! दैव ! यद्ययं नेतुं चिन्तितोऽभूद् दशामिमाम् । तत्त्वया किं कृतो विश्वमौलिलालितशासनः ? ॥४५॥ यद्वा ज्ञातं नितान्तं यं विडम्बयितुमीहसे । तस्य कन्दलयस्येवमतीव महतीः श्रियः ॥४६॥ एतैर्वा किमुपालम्भैर्भ्रातर्यावः पुरः क्वचित् । दैवाय प्रभविष्यावस्तत्रामुष्मै दुरात्मने ॥४७॥ निद्रासुखासिकालोभाद् गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः सच्छायेऽत्रैव कानने ॥४८॥ इत्यादि प्रलपन्नुच्चावचेन वचसा मुहुः । सीरभृत् तं दिनं तां च यामिनीमत्यवाहयत् ॥४९॥ प्रगे च वचनैस्तैस्तैरनुतिष्ठन्तमच्युतम् । जीवबुध्या निजस्कन्धमध्यारोप्य बलोऽचलत् ॥५०॥
[ ७०१
5
10
15
20
25