________________
5
10
15
20
25
७०० ]
[ पाण्डवचरित्रमहाकाव्यम् । बलदेवस्य मूर्च्छा ॥
जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वरम् । स्फीतमस्तीदमानीतमम्भः सुरभि शीतलम् ||२४|| तत्प्रक्षाल्य क्षणादास्यं कणेहत्य निपीय च । दूरकान्तारसञ्चारसूतिः श्रान्तिर्विनीयताम् ॥२५॥ अव्याहरति कंसारौ सीरभृत्पुनरब्रवीत् । किमु रुष्टोऽस्यरिष्टारे ! 'कालक्षेपान्मनागपि ॥२६॥ एष तेऽसाम्प्रतं रोषः साम्प्रतं तु प्रसीद मे । देशे दवीयसि प्राप्तिर्वारिणोऽत्रापराध्यति ॥२७॥ तथाप्यस्मिन्नजल्पाके सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः शेतां नामैष तन्मना ॥२८॥ इत्यालोच्य स्थितः कृष्णं परितः कृष्णमक्षिकाः । भ्रमन्तीर्वीक्ष्य सम्भ्रान्तः सोऽपि (प ) निन्येऽवगुण्ठनम् ॥२९॥
ततोऽपश्यदपेतासुं कंसविध्वंसनं हली । शोणितैश्चोल्बणं भल्लिव्रणं चरणपल्लवे ॥३०॥ कोपाटोपात्ततः सिंहनादमुच्चैश्चकार सः । येनारण्यमृगास्त्रेसुः कम्पते स्म च काश्यपी ॥३१॥ जगाद च मदाध्मातः पातकी ननु कोऽस्ति भोः ? | निद्राणमतुलप्राणं योऽवधीन्मम बान्धवम् ॥३२॥ सुप्तमत्तप्रमत्तेषु बालस्त्रीमुनिगोष्वपि । क्रूरकर्मैकचाण्डालोऽप्यभिज्ञः प्रहरेत कः ? ||३३|| दोर्दर्पोऽप्यस्ति चेत्कश्चित्तत्स्वमाविः करोतु सः । भुजोष्मज्वरिणां बाहुः सर्वेषामेष भेषजम् ॥३४॥ इत्याद्यनेकशः कोपाद् गिरमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य मूर्च्छितः क्ष्मातलेऽपतत् ॥३५॥ क्षणाच्चैतन्यमासाद्य शीतैः कान्तारमारुतैः । रोदयञ्श्वापदान्काममाक्रन्दैर्विललाप सः ॥३६॥
१. 'क्षेपागमान्मयि' 'क्षेपान्मनाग्मयि' प्रत्यन्तरपाठौ ।