________________
अष्टादशः सर्गः । बलदेव वृत्तान्तः ॥ ]
कर्मस्तोमभुजिष्याणां मनुष्याणां तु का कथा ? । येषामायुः श्रियः सौख्यं योषिद्भ्रूभङ्गभङ्गुरम् ॥११॥ सम्पद्भिदोर्विलासैश्च येऽप्यहङ्कारिणोऽधिकम् । तेऽपि ह्यन्यस्य दृश्यन्ते भ्रूलतायत्तवृत्तयः ॥ १२॥ येऽपि दोर्विक्रमाक्रान्तभूचक्राश्चक्रवर्तिनः । जातुचित्तेऽपि वीक्ष्यन्ते हन्त दीनां दशां गताः ॥१३॥ दुःखैकान्तमयं संपत्तारतम्यमयं च तत् । धीराः संत्यज्य संसारमुत्तिष्ठन्ते विमुक्तये ॥१४॥ इति संवेगिनीं वाचमुच्चार्य विरौ । पाणिकुड्मलमामील्य जगाद जगतीपतिः ॥१५॥ भवानेव प्रभो ! वेद कामं संसारमीदृशम् । गिरः प्रक्रमते वक्तुमीदृशीर्नह्यनीदृशः ॥१६॥ निश्चित्यानुभवैस्तैस्तैर्भवस्यानभिरामताम् । अस्माभिरपि वैराग्यात्प्रविव्रजिषुमानसैः ॥१७॥ श्रीनेमिस्वामिनो ध्यातश्चिरादागमनोत्सवः । नूनं तेनापि विज्ञाय प्रेषितोऽसीह नः कृते ॥ १८ ॥ युग्मम् । तद्भवानपि नः साक्षात्तस्य मूर्तिर्जगत्पतेः । संसारसागरादस्मादुद्धराऽस्मांस्ततः प्रभो ! ॥१९॥ किंत्वर्थोऽतीन्द्रियज्ञानशेवधीनां भवादृशाम् । न कोऽपि क्षेत्रकालाभ्यां दवीयानप्यगोचरः ||२०|| तद्वनेऽभूद्यथा मृत्युः शयालोर्वनमालिनः । जराङ्गजन्मनाऽनेन तथा नः कथितः स्वयम् ॥२१॥ तत्कृते जलमाहर्तुं गतोऽभूत्तु हली तदा । तत्कथां श्रोतुमिच्छामः स्वामिनाख्यातुमर्हसि ॥२२॥ अथेत्यव्याहतज्ञानो व्याजहार मुनीश्वरः । बलः सलिलमादायकेशवान्तिकमायौ ॥२३॥
१. भुजिष्यः - दासः ।
[ ६९९
5
10
151
20
25