________________
६९८]
[पाण्डवचरित्रमहाकाव्यम् । धर्मघोषमुन्यागमनम् ॥
अष्टादशः सर्गः ॥
अथ नेमिजिनादेशाद्देशनाक्षीरसागरः । धर्मघोषमुनिः पाण्डुमथुरोद्यानमाययौ ॥१॥ समागमं मुनेस्तस्य विदित्वोद्यानपालकात् । सहानुजैरजातारिर्मुदितो वन्दितुं ययौ ॥२॥ अथाध्यासीनमुन्मीलदानन्दाश्रूदबिन्दुभिः । सुरासुरनराधीशमण्डलैर्मण्डितं सदः ॥३॥ निविष्टममरैः सृष्टे विकचे काञ्चनाम्बुजे । कर्तुं विश्वत्रयीं धर्ममयीमन्यं प्रजापतिम् ॥४॥ पञ्चशत्या महामात्यमुनीनां परिवारितम् । धर्मं साक्षादिवोदय़स्तपोदानादिभिर्वृतम् ॥५॥ रूपस्य तपसोऽप्येकमाश्रयं श्रेयसां निधिम् । अद्राक्षीत्प्रीतिफुल्लाक्षस्तं मुनि मेदिनीपतिः ॥६॥ चतुर्भिः कलापकम् । भक्तिनिर्भरमानम्य तं ततो मुनिपुङ्गवम् । जराङ्गजन्मना सार्धं न्यविक्षत पतिः क्षितेः ॥७॥ मुनीन्द्रः सोऽथ पीयूषस्यन्दसोदरया गिरा । वैराग्यैकमयीं धर्मदेशनामुपचक्रमे ॥८॥ हा ! धिक्साक्षादसारत्वं संसारस्य विदन्नपि । मद्यान्मद्यपवत्तस्मान्नायं निर्विद्यते जनः ॥९॥ सुखाद्वैतमयाः कामं येऽप्यनुत्तरनाकिनः । तेषामपि यतो हन्त पर्यन्तविरसाः श्रियः ॥१०॥
20
१. 'महामत्या' प्रतिद्वय ।