________________
सप्तदशः सर्गः । पाण्डवानां वैराग्यम् ॥]
[६९७ चारित्रराजमासन्नासीनसन्तोषसेवकम् । हत्वा शोकं विवेकोऽथ पाण्डवानामदर्शयत् ॥३५७।। तत्र वीक्षितमात्रेऽपि तेऽन्वभूवन्परं सुखम् । विदांचक्रुश्च परमं तमेवात्मोपकारिणम् ॥३५८।। अकालं सत्कृतास्तेषामत्यन्तमपकारिणः । प्रत्येकं प्रत्यभासन्त मोहराजादयस्तदा ॥३५९॥ निर्वेदाख्यः सखाऽभ्येत्य सद्बोधसहितस्ततः । मोहादीनां पृथक्पार्थान्दोषजातमजिज्ञपत् ॥३६०॥ अथ ते पाण्डुजन्मानश्चेतसोऽन्तरचिन्तयन् । अहितोऽपि हितो नूनं मोहो नः प्रत्यभादयम् ॥३६१॥ एतस्य ज्येष्ठपुत्रेण रागकेसरिणा श्रियः । असारा अपि नः साररूपत्वेन प्रदर्शिताः ॥३६२॥ नाम्ना द्वेषगजेन्द्रेण सुतेनास्य कनीयसा । बन्धुष्वपि वधारम्भमकार्यं कारिता वयम् ॥३६३।। अन्योऽप्येतस्य सन्तानस्तानवाय सुखश्रियाम् । सर्वदाऽभवदस्माकं कषायविषयादिकः ॥३६४॥ तस्मादेनं तिरस्कृत्य कुर्मो नेतारमात्मनः । तं चारित्रक्षमाधीशं साक्षीकृत्य जगत्प्रभुम् ॥३६५॥ किन्तु न ज्ञायते देशो यं पुनीतेऽधुना प्रभुः । यद्वा जानन्मुमुक्षून्नः स्वयं सोऽनुग्रहीष्यति ॥३६६॥ साधीयोऽध्यवसायसन्ततिमयीमारूढवन्तो दृढं निश्रेणि स्पृहणीयबोधपटिमस्पष्टीभवद् दृष्टयः । तैस्तैरुत्कलिकाशतैः कवचितं चेतो वहन्तस्तदा पन्थानं किल पाण्डवा जिनपतेरालोकयाञ्चक्रिरे ॥३६७॥
इति मलधारिश्रीदेवप्रभसरिविरचिते पाण्डवचरिते महाकाव्ये 25 द्रौपदीप्रत्याहरण-द्वारकादाह-कृष्णावसानवर्णनो नाम सप्तदशः सर्गः ॥१७॥
१. लघुत्वाय । २. साधीयान्-अतिप्रशस्यः । ३. उत्कण्ठाशतैः । ४. कवलित (व्याप्त) प्रतिद्वये० ।