________________
5
10
15
20
25
६९६ ]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्णस्यावसानं पाण्डवानां शोकः ॥ अहं तु प्रावृतं क्षौमेणाङ्घ्रिमारोप्य जानुनि । अस्वपं श्रमसुप्रापनिद्रोऽत्रैव तरोस्तले ॥ ३४३ ॥ ततो विद्धोऽस्मि कस्माच्चिद्भ्रमात्पादतले त्वया । इयं तव जरासूनो ! कथिता मूलतः कथा || ३४४॥ श्रुत्वा विष्णुमुखादेवं द्वारकादाहवैशसम् । इत्यशोचं चिरं दुःखाद्दैवोपालम्भपूर्वकम् ॥३४५॥ रे ! दुर्विधेय ! वैधेय ! विधे ! विविधकौतुकाम् । एवंविधां विधायैतामधाक्षीरधुना कथम् ? ॥३४६|| दग्धौ हन्त हुताशेन हा ! मातापितरौ मम । मामकीनाः क्व ते नाम बन्धवः स्नेहबन्धुराः ? ॥३४७॥ जितवासवसाम्राज्यं राज्यं हारि हरेः क्व तत् ? । क्व चास्येत्थमवस्थानं तले सिकतिले तरोः ? ॥३४८॥ हा ! तत्राप्यस्य कुत्रेदं मया बाणेन ताडनम् ? | धिङ् मां हन्त ! सुखसुप्तभ्रातृहत्यामलीमसम् ॥३४९॥ शोचन्तमिति मामूचे वात्सल्यादुत्सुको हरिः । अलमेभिर्विलापैस्ते भव कार्यकरोऽधुना ॥३५०॥ इत ऊर्ध्वं मुहूर्तेन मृत्युर्भावी मम ध्रुवम् । तदिदानीं स्मरिष्यामि श्रीनेमिपदपङ्कजम् ॥३५१॥ तत्त्वं कौस्तुभमादाय जवेन व्रज पाण्डवान् । अन्यथा मथिताऽवश्यमायातस्त्वां बलो बली ॥३५२ ॥ कियन्तमपि पन्थानं यायाः पश्चान्मुखैः पदैः । यथा सङ्कर्षणो रोषान्न स्यादनुपदी तव ॥ ३५३ ॥ मर्माविधमथोद्धृत्य हरेरङ्घ्रितलाच्छरम् । कौस्तुभं च करे कृत्वा धर्मजन्मन्निहागमम् ॥३५४॥ इत्याकर्ण्य जरासूनोर्मुखाद् द्वारवतीकथाम् । प्रापुः परमसौजन्याः शुचं पञ्चापि पाण्डवाः || ३५५॥ चित्तवृत्तिकृतावासं सम्यग्दर्शनमन्त्रिणा ।
यति श्रावकधर्माभ्यामात्मजाभ्यां च राजितम् ॥ ३५६ ॥