________________
[६९५
सप्तदशः सर्गः । कौशाम्बवने गमनम् ॥]
भिन्दन्तमच्छदन्तस्य चतुरङ्गां वरूथिनीम् । अद्राक्षं कुञ्जरालानस्तम्भपाणि व सीरिणम् ॥३२९॥ पुरीपरिघमादाय धार्तराष्ट्रमवादिषम् । दुरात्मन्नागमं सोऽहं कौरवान्तकरो हरिः ॥३३०॥ ततः परिघमालोक्य प्रणतो मृत्युकातरः । बद्धाञ्जलिरजल्पन्मां स सुयोधनबान्धवः ॥३३१॥ किमाक्रम्यः कुरङ्गाणां दुःस्थावस्थोऽपि केसरी ? । देव ! स्वसेवकस्यास्य तदागः क्षम्यतामिदम् ॥३३२॥ तं मुक्त्वाऽथ प्रसादेन पुनस्तद्वनमागमम् ।। नानामनोहराहारपाणिना सीरिणा समम् ॥३३३॥ रामस्तत्र मयाऽप्रच्छि लब्धं भोज्यमिदं कथम् ? । .. आयातोऽसि कथं चास्य दृक्पथे परिपन्थिनः ? ॥३३४॥ रामेणाख्यायि गोविन्द ! कन्दुकाद्भोज्यमद्भुतम् । सुवर्णकटकक्रीतमानयन्तमिदं पथि ॥३३५॥ कथञ्चिद् ज्ञातवृत्तान्तः कृतान्त इव भीषणः । सैन्योदन्वानरौत्सीन्मामच्छदन्तोऽभ्यधादपि ॥३३६॥ युग्मम् । कत्राहो ! रोहिणीसूनो ! यासि पाण्डवबान्धव ! ? । गृहाणायुधमाधेहि पुनरायोधने मनः ॥३३७॥ विमुच्य भोज्यपात्राणि ततः श्वेडायितोद्धतः । स्तम्भेन दलयन्वैरिबलं दृष्टस्त्वयाऽप्यहम् ॥३३८॥ ... अथावां विहिताहारौ ततः प्रचलितौ क्रमात् ।। उपागावदुरापाम्बु कौशाम्बं नाम काननम् ॥३३९॥ पुंनागपादपस्यास्य छायामायातवानहम् । तृषादितः पयःपानं श्रान्तो राममयाचिषम् ॥३४०॥ सोपद्रवे वनेऽमुष्मिन् कृष्ण ! मा भूः प्रमद्वरः । आगतो द्रुतमेषोऽहमिति व्याहृत्य मां मुहुः ॥३४१॥ विनियुज्य च साहाय्ये ममेह वनदेवताः । इतो जगाम रामोऽम्बु निर्विलम्बमवेक्षितुम् ॥३४२॥ युग्मम् ।