SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ ६९४] [पाण्डवचरित्रमहाकाव्यम् । हस्तिकल्पपुरे रामकृष्णयोः आगमनम् ॥ आर्य ! पुर्याः क्व सा लक्ष्मी: ? क्व च दाहो महानयम् ? । क्व शौण्डीर्यमवार्यं तत् ? क्व चेयं क्लीबता मम ? ॥३१५॥ आर्य ! किङ्कार्यतामूढः प्रौढापत्पतितस्ततः । किं करोमि ? क्व गच्छामि राजचक्रे विरोधिनि ? ॥३१६।। सीरपाणिरथाभाणीत्कृष्ण मा खेदमातथाः । प्रभुव्याख्यातमश्रौषी: किं न संसारनाटकम् ? ॥३१७।। अत्र कर्मपरीणामः सूत्रधारो निरर्गलः । प्राणिनो नाट्यपात्राणि नानानेपथ्यधारिणः ॥३१८॥ स खलूच्छृङ्खलोत्साहः स्वमतार्पितभूमिकः । हर्षशोकादिभिर्भावविवर्तेर्नर्तयत्यमून् ॥३१९॥ भवनाट्ये ततोऽनेन सूत्रधारेण सूत्रिता । संस्था सर्वाऽपि पात्राणां तद्विष्णो ! मा स्म खिद्यथाः ॥३२०॥ गन्तव्यं पुनरावाभ्यां पाण्डवेयान्तिकेऽधुना । ते स्मरन्त्युपकारं नो नापकारं तु जातुचित् ॥३२१॥ अपकारेऽपि सौजन्यं सुजनो नैवमुञ्चति । जहाति दह्यमानोऽपि घनसारो न सौरभम् ॥३२२॥ ततः प्रचलितावावां पाण्डवानां पूरी प्रति । हस्तकल्पपुरोद्यानमागमाव श्रमादितौ ॥३२३॥ क्षुत्क्षामं वीक्ष्य मां रामो भोजनानयनेच्छया । वेगात्तस्य पुरस्यान्तः प्रस्थितोऽभिदधे मया ॥३२४॥ अच्छदन्ताभिधानोऽत्र धृतराष्ट्रात्मजो नृपः । स च पाण्डवगृह्येण मया वैरायते भृशम् ॥३२५॥ अनार्योऽयं किमप्यार्य ! चेद्वैरोचितमाचरेत् । विदधीथास्ततः क्ष्वेडामापतेयमहं यथा ॥३२६॥ तत्प्रतिश्रुत्य रामेऽथ पुरीमध्यमुपेयुषि । मम क्षणान्तरे श्वेडा कर्णमूलमुपागमत् ॥३२७।। ततः क्रोधकरालोऽहमत्युत्तालमधाविषम् । पिहितां च पदाऽऽहत्य प्रतोलीमुदघाटयम् ॥३२८॥ 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy